शिरा
śirāस्त्री · fem.In 12 kośas: 14 synonym verses, 1 as a nānārtha head word, 8 as a meaning of another word.
वस्नसा नु स्नसा स्नायुर्नाड्यो धमनयः शिराः ।
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
शाखास्थि नलकं प्रोक्तं पृष्ठस्यास्थि कसेरु च ।कण्डरा स्यान्महास्नायुः स्नसा स्नायुः शिरा स्मृता ॥ ६३४ ॥
अनुष्टुप्
genderस्त्रीfem.
धमनिर्धमनी नाडी नाडिर्नालिः शिरा सिरा ।क्लोम क्लोमं प्लिहन् प्लीहन् प्लिहाप्लीहे अपि स्मृते ॥ १७४ ॥
अनुष्टुप्
genderस्त्रीfem.
जीवितज्ञा धरा मन्या तन्तुकी धरणी च सा ।स्याच्छिरा धमनिर्नाडी नाडिः षण् सन्धिबन्धनम् ॥ २३७ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
क्रपिरास्नाशिराकालाशंवा कृष्णोष्णिकाश्रियाम् ।रोचनासरघाधाय्यासृक्कापण्यातसीभुवाम् ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुरापात्री वरत्रा च वागुराऽपि शिरोधरा ।स्रग्धरा शर्करा होरा शिराहारोपलेलया ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
लसीका तु त्वग्रसोऽथ धमनिः स्त्री शिरा सिरा ।नाडी नाभिगृहा स्नायुः स्त्री स्नसा वस्नसापि सा ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
ऊर्मिपुंतरङ्गपुंध्वनिपुंशब्दपुंअञ्जलिपुंकरपुटपुंओष्ठपुंअधरपुंदन्तच्छदपुंकपोलपुंगण्डपुंगुल्फपुंपादग्रन्थिपुंघुठपुंघूंठपुंपादपुंरोगपुंवेगपुंस्पर्शपुंपाकपुंत्यागपुंयोगपुंप्रसादपुंभेदपुंछेदपुंदाहपुंदोषपुंप्रकारपुंविकारपुंजयपुंनयपुंकरपुंवरपुंभरपुंशरपुंनरपुंप्लवपुंपवपुंभवपुंअन्धकारपुंक्लीवस्तिपुंकुक्षिपुंपाणिपुंजङ्घास्त्रीशिरास्त्रीस्नुषास्त्रीनासिकास्त्रीचूडास्त्रीवसास्त्री
genderस्त्रीfem.
प्राणो नाम वायुः सोऽस्यास्तीति प्राणी तस्याङ्गं प्राण्यङ्ग इकारः अन्ते यस्य तदिदन्तम् । तत्सर्वं स्त्रीलिङ्गं भवति । तद्यथा । इयं कटिः श्रोणिः अङ्गुलिः पङ्क्तिरित्यादि वस्तिकुक्षिपाणीनामपीदन्तत्वाच्च स्त्रीत्वे प्राप्ते बाधः क्रियते । एतान्विमुच्य वर्जयित्वेत्यर्थः । पुंसीत्यधिकारात्तेषां पुंस्त्वमेव भवति । अयं वस्तिः नाभेरधः । अयं कुक्षिरुदरस्थानम् । अयं पाणिर्हस्त इति । जङ्घादयः शब्दाः स्त्रियां भवन्ति । इयं जङ्घा जानुनोरधस्तात् । पादस्योपरिस्था च । इयं शिरा देहधारिणी । इयं स्नुषा पुत्रवधूः ।इयं नासिका गन्धहारिणी । इयं चूडा शिखा । इयं वसा शोणितविकारः स्नेहश्च ।स्रक्स्रुक्स्फिक्त्वग्वाग्योषितो हि विद्यात्स्त्रियां द्युनावौ च ।दीधितिमेकां[का] मुक्त्वा रश्म्यभिधानं तु पुंस्येव ॥ १८ ॥
metre not recognised
genderस्त्रीfem.
उपकार्या कण्डरेरासृग्धरा वागुरा शिरा ।जलार्द्रा शर्करा गुन्द्रा मुद्रा क्षुद्रा परंपरा ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
सिराः शिराश्च नाड्यश्च धमनयो भवन्ति वै ।नाटिका च नडिर्नाडिरित्यपि मन्यते बुधैः ॥ १०१९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable); pāda 4, syllable 3 पि (wrong syllable)
genderस्त्रीfem.
पश्चाद्ग्रीवा शिरामन्यामन्यकापि च निगद्यते ।नाडीशिरा शिरानाली धमनिर्धमनीति च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
स्नावा नान्तो, धमन्यां तु धमनिर्नाडि-नाडकौ ।नाडी शिरा सिरा नेत्रमले दूषी सदूषिका ॥ १९४ ॥
अनुष्टुप्
genderस्त्रीfem.
शारीऽनिलाक्षोपकृत्योः शवलेऽपि च वाच्यवत् ।शिग्रुः पुंसि शाकमात्रे तथा शोभाञ्जनद्रुमे ॥शिरा नाड्यां स्त्रियामेव पिप्पलीमूलके पुमान् ।शीघ्रं नलद चक्राङ्ग(?) क्लीबं द्रुते गतौ(?) त्रिषु ॥शुभमम्रे क्लीबलिङ्गमुद्दीप्तशुक्लयोस्त्रिषु ।शुक्रो मासि भृगौ वह्नौ ना क्लीबे रोगरेतयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 सि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 द्रु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 प्त (wrong syllable)
meaningsनाडी
शिरा as a meaning in nānārtha verses
- धरणिकोश धमनीरजनी नीलिका रात्रि… । धमनी च शिरा प्रोक्ता तथा हट्टविलासिनी ॥ Dharaṇikośa 19.2.21
- धरणिकोश ग्रीवालघ्वी रथप्रभेदेऽपि ग्रीवा शिरापि कीर्तिता । क्लीवो निर्विक्रमे शण्ठे केशवः केशवान्हरिः ॥ Dharaṇikośa 28.1.3
- कोषकल्पतरु इडापात्रे वाजिविभूषणे च तटिनीपात्रेऽथ गोभूबुध- स्त्रीवाणीमखपात्रभित्स्वपि शिरासृष्ट्योरिडेले मते । क्रीडा खेलनहेलयोरथ भवेच्चूडा वलभ्यां शिखा- दोर्भूषास्वथ मौलिमाल्यसरलानुक्रोशमर्दार्तिषु ॥ ८० ॥ Koṣakalpataru 6.12.80
- कोषकल्पतरु नाडीपीडा स्यादथ षट्क्षणीव्रणभिदोः स्याद्गण्डदूर्वाशिरा- व्याजेर्यासु च नालयन्त्रभिदि * योक्त्री च नाडी मता । रण्डा मूषिकपर्णिका मृतधवा[276b] स्त्री चाथ रुण्डोऽकरे बन्धक्यां मदनिर्भरे तु परवत्स्त्री दन्तिनः स्यात्करे । वेश्यामद्यसरोजिनीषु पयसश्चेभ्यां च शुण्डा मता- Koṣakalpataru 6.12.15
- कोषकल्पतरु मलनशिराशिरोध्योर्मलनं तु मर्दे तथा नृलिङ्गं पटवासवाचि । स्यात्कम्पशीले चलनं च कम्पे चार्यां च चण्डातक ईरितं स्त्री ॥ ३० ॥ Koṣakalpataru 6.21.30
- कोषकल्पतरु तन्त्रस्त्रियां तु वीणागुणदेहयोः स्या- त्तथा शिरायां च गुडूचिकायाम् । छत्रं त्रयेऽप्यातपवारणे स्या- न्मिस्यां शिलीन्ध्रेऽपि च धान्यके स्त्री ॥ ३८ ॥ Koṣakalpataru 6.27.38
- कोषकल्पतरु ग्रीवाग्रीवा शिरोधावपि तच्छिरायां मीवा तु वायावुदरक्रिमौ च । रेवा सरिद्भित्स्मरयोषितोः स्या- नील्यां च लट्वा तु करञ्जभेदे ॥ १० ॥ Koṣakalpataru 6.29.10
- शब्दरत्नावली धमनीतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57