यकृत्
yakṛtक्ली · neut.In 13 kośas: 15 synonym verses, 2 as a meaning of another word.
कालखण्डं कालखञ्जं कालेयं कालकं यकृत् ॥ ६०४ ॥
अनुष्टुप्
genderक्लीneut.
अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा ।स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे ॥ ६६ ॥
अनुष्टुप्
genderक्लीneut.
मस्तिष्कं मस्तकस्नेहो वपा मेदो वसा स्मृता ।अन्त्रं पुरीतत्कथितं कालखण्डं यकृन्मतम् ॥ ६३५ ॥
अनुष्टुप्
genderक्लीneut.
वुक्कस्त्रिषु यकृत् क्लोम ताड्यं क्लपुषमित्यपि ।वल्लूरं त्रिषु षण्मुष्कमांसं सरसमुत्तमम् ॥ २२८ ॥
अनुष्टुप्
genderक्लीneut.
शिलाभवान्तिकदृशां सिध्मवल्कलयोरपि ।यकृन्मरिचनलदसौवीराणां तथाऽसृजः ॥ ७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
genderक्लीneut.
रोमावली रोमलता शिखरिण्युदरं पुनः ।उदलं जाठरं तुन्दं कुक्षि-कुक्षौ च गर्भकः ॥पिचण्डं जठरो न स्त्री तुन्दिः स्यात्तत्र च स्त्रियाम् ।कृपीटं कालखण्डं तु कालखञ्जं च कालकम् ॥यकृत्कालेयकमथ तिलकं क्लोम दक्षिणे ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
चित्र-वस्त्र-घुसृणागरु-हिङ्गु-गूथ-पिच्छ-दल-तालु-हलानाम् ।तुत्थदृङ्मरिचहृन्नलदानांयुद्ध-सिध्म-यकृदस्थि-फलानाम् ॥ ८० ॥
स्वागता
genderक्लीneut.
कालेयं कालखण्डं च यकृत्तत्र निरीक्षितम् ।दक्षिणे तिलकं पार्श्वे वामे स्याद्रक्तफेनजः ॥ २६४ ॥
अनुष्टुप्
genderक्लीneut.
दलतालुबिलाम्भोरुह् मरिचव्यञ्जनाम्भसाम् ।घुसृणागुरुसौवीरक्लोमसिध्मयकृद्युधाम् ॥ ७३ ॥
अनुष्टुप्
genderक्लीneut.
कालखण्डं यकृच्चापि मांसखण्डान्तरे मतम् ।लालायां सृणिका प्रोक्ता स्यन्दिनी स्रवणापि च ॥ १३५ ॥
अनुष्टुप्
genderक्लीneut.
कालखण्डं च कालेयं कालखञ्जं कालकम् ।यकृत् चेत्यादि नामानि मन्यते यकृतो बुधः ॥ ९७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
क्लीबे यकृत् कालखण्डं खलिञ्जं कलिजाह्वये ॥
genderक्लीneut.
समे तु गोर्दमस्तिष्के द्वौ गुल्मप्लीहनौ समौ ।कालखण्डं यकृत क्लीबे स्नायुर्ना वस्नसा स्त्रियाम् ॥ १११६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
यकृत्कुहकसिध्मानि तीरं कशिपु जानु च ।धामार्द्धसारमित्राण्यङ्गदलन्यायबन्धुषु ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
अस्त्री परीतदान्त्रं स्यात् कालखण्डं पुनर्यकृत् ।गुल्मः प्लीहा च डिंबः स्यादष्ठीला गर्भसंपुटः ॥ ११३ ॥
अनुष्टुप्
genderक्लीneut.
यकृत् as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप वैष्ट्रवेश्म स्यान्मन्दिरे लग्नादपि राशौ तुरीयके । वैष्ट्रं तु यकृति स्वर्गे गेहेऽपि परमात्मनि ॥ ६० ॥ Nānārthārṇavasaṃkṣepa 2.3.60
- नानार्थार्णवसंक्षेप शितामसोपाने स्याद्धस्तिनखे पक्षिणामपि पञ्जरे । अथो शिताम(१) दोष्णि स्याद् योनौ यकृति मेदसि ॥ ८० ॥ Nānārthārṇavasaṃkṣepa 3.3.80