कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः

On page 149, verse numbers 145 and 146 are duplicated. They are numbered consecutively. Therefore, the next verse numbers do not match.

केशवकृतः कल्पद्रुकोशः

गुरुं श्रीदक्षिणामूर्तिं विभुं विश्वेश्वरं परम् ।सर्वज्ञं तमनाद्यन्तं रात्रिंदिवमुपास्महे ॥ १ ॥
1.1 · p. 1
अनुष्टुप्
कात्यवाचस्पतिव्याडिभागुर्यमरमङ्गलाः ।साहसाङ्कमहेशाद्या विजयन्ते जिनान्तिमाः ॥ २ ॥
1.2 · p. 1
अनुष्टुप्
समालोक्य मतान्येषां कल्पद्रुरखिलार्थदः ।क्रियते केशवेनायं नामप्रकृतिबोधनः ॥ ३ ॥
1.3 · p. 1
अनुष्टुप्
रूपोक्त्या साहचर्याद्वा विशेषविधितः क्वचित् ।स्त्रीपुंक्लीबप्रकृतयो ज्ञेयास्तत्र स्त्रियां स्त्रियि ॥ ४ ॥
1.4 · p. 1
अनुष्टुप्
स्त्री पुंसि ना नरि पुमान् पुं क्लीबे षण्नपुंसकम् ।युग्मे द्वयोस्त्रिप्रकृतौ त्रिषु, शेषार्थवाचकम् ॥ ५ ॥
1.5 · p. 1
अनुष्टुप्
निषेधेत्वादिमग्राहि स्वार्थानामन्तगामिनाम् ।अथारम्भेथ पर्यायपरिवृत्तिप्रसङ्गतः ॥ ६ ॥
1.6 · p. 1
अनुष्टुप्
प्रत्ययार्थैः प्रकृतयस्तदुत्पत्तिप्रसङ्गतः ।पर्यायिपदमारभ्य ज्ञेयं नामात्र सर्वतः ॥ ७ ॥
1.7 · p. 1
अनुष्टुप्
समस्तपदपर्यायपरिवर्त्तनमत्र तु ।आलंकारिकसिद्धान्तासह्यत्वेऽपि विलोक्यताम् ॥ ८ ॥
1.8 · p. 1
अनुष्टुप्
येषां नातिप्रसिद्धानां शब्दानामिह संग्रहः ।तेषां महाकविग्रन्थैः संवादोऽनुविधीयताम् ॥ ९ ॥
1.9 · p. 2
अनुष्टुप्