कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · वनौषधिप्रकाण्डः (6/6)

सक्षीरा पद्मिनीप्रख्या देवी ब्रह्मसुवर्चला ।अरत्निमात्रक्षुपका पत्रैर्द्व्यङ्गुलसम्मितैः ॥ ६०१ ॥
1.11.601 · p. 316
अनुष्टुप्
पुष्पैर्नीलोत्पलाकारैः फलैश्चाञ्जनसप्रभैः ।श्राविणी महती ज्ञेया कनकाभा पयस्विनी ॥ ६०२ ॥
1.11.602 · p. 316
अनुष्टुप्
श्राविणी पाण्डुराभासा महाश्राविणिलक्षणा ।गोलोमी चाजलोमी च लोमशे कन्दसम्भवे ॥ ६०३ ॥
1.11.603 · p. 317
अनुष्टुप्
हंसपादीव विच्छिन्नैः पत्रैर्मूलसमुद्भवैः ।अथवा शंखपुष्प्या तु समाना सर्परूपतः ॥ ६०४ ॥
1.11.604 · p. 317
अनुष्टुप्
वेगेन महता विद्यात्सर्पनिर्मोकसन्निभा ।एषा हैमवती नाम जायते साम्बुदक्षये ॥ ६०५ ॥
1.11.605 · p. 317
अनुष्टुप्
सप्तादौ सर्परूपिण्यो बाह्यौषध्यः प्रकीर्तिताः ।तासामुद्धरणं कार्यं मन्त्रेणानेन सर्वदा ॥ ६०६ ॥
1.11.606 · p. 317
अनुष्टुप्
महेन्द्रराजकृष्णानां ब्राह्मणानां गवामपि ।तपसा तेजसा चैव प्रशाम्यध्वं शिवाय च ॥ ६०७ ॥
1.11.607 · p. 317
अनुष्टुप्
मन्त्रेणानेन मतिमान्सर्वमप्यौषधं जपेत् ।कल्पद्रौ केशवकृते फलिते नाम सत्फलैः ।वनौषधिप्रकाण्डोऽयं दशमः सिद्धिमागतः ॥ ६०८ ॥
1.11.608 · p. 317
अनुष्टुप्