कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पर्ण

parṇaक्ली · neut.

In 20 kośas: 23 synonym verses, 8 as a nānārtha head word, 11 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.19 · p. 44
पत्त्रं पलाशं छदनं बर्हं पर्णं छदं दलम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.25
पत्रं पलाशं छदनं दलं पर्णं छदः पुमान् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.29
पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.185 · p. 23
पल्लवः स्यात्किसलयं वल्लरी मञ्जरी तथा ।वर्हं पर्णं दलं पत्त्रं पलाशं छदनं छदः ।अङ्कूरश्चाङ्कुरः प्रोक्तो वृन्तं प्रसवबन्धनम् ॥ १८५ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.203 · p. 84
छदस्तु छदनं पत्रं पलाशं छदनादलम् ।पर्णं बर्हं च पत्रं च कोशिका मुकुलोऽपि च ॥ २०३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.26 · p. 251
समिन्धनेन्धने च द्वे निःकुहः कोटरोऽस्त्रियाम् ।पत्रं पलाशं पात्रं स्याद्दलं पर्णं छदः पुमान् ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.32 · p. 136
मिथुने वल्लरिर्मञ्जा चमरा[21a]मञ्जरा न ना ।पत्रबर्हिश्छदा न स्त्री पर्णं पत्रं दलं तथा ॥ ३२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.23 · p. 109
वारिपर्ण-फण-शाण-पार्ष्णयःस्यात्सृणिर्द्रुभिदि वाण ईरितः ।स्यात्स्फुलिङ्गलववाचकः कणः ।स्यात्करेणुरिभयोर्हरेणुवत् ॥ २३ ॥
रथोद्धता
genderपुंस्त्रीm. f.
एते शब्दाः पुंल्लिङ्गे उक्ताः । यथाऽयं कुशः दर्भः । अयं कूबरो रथस्कन्धः । कुञ्जो गहनः । अङ्कुरो बीजप्रादुर्भावः । कुठारः परशुः । कुन्दः[न्द] पुष्पजातिः । कुतुपश्चर्मपात्रम् । एतानि नपुंसकानि जानीयात् । एवकारोऽवधारणे । इदं कुलं ब्राह्मणानाम् । कू[कु]लं नदीतटम् । कुङ्कुमं काश्मीरम् ।लोहमुखपर्णवनधनसञ्ज्ञाश्च नपुंसके प्रोक्ताः ।शीरार्थौ पुंस्युक्तावटवी तूक्ता स्त्रियामेव ॥ ३४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । लोहादिसञ्ज्ञा नपुंसके भवन्ति । इदं लोहमायसम् । मुखं लपनं तुण्डमाननमित्यादि । इदं पर्णं पलाशमित्यादि । वनं विपिनं काननमित्यादि । इदं धनं द्रविणं वस्वित्येवमादि । शीरार्थौ शब्दौ पुंसि भवतः । अयं शीरोऽलङ्कारः । अर्थो द्रव्यम् । अटवी तूक्ता स्त्रियामेव । इयमटवी वनम् ।राशिपलाण्डुकमण्डलुगडुतूलमुहूर्त्तपरशुशङ्कूनाम् ।दृतिसीधुकङ्कटानां पुंसि च गदितः प्रयोगो हि ॥ ३५ ॥
metre not recognised
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.91 · p. 52
पलाशे किंशुकः पर्णः खरपर्णस्रिपत्रकः ।त्रिवृन्तास्यो रक्तपुष्पः क्षीरश्रेष्ठः समिद्वरः ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.37 · p. 12
पलाशो किंशुकः पर्णो वातपोतस्त्रिपर्णकः ।बिल्वे मालूरमाङ्गल्यौ नारङ्गे तक्रवासनः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.34 · p. 56
काष्ठं तु दलिकं दारु मञ्जरिर्वल्लरिः समे ।पर्णं बर्हं पलाशं च दलं पत्रं छदं पुनः ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.152 · p. 11
पलाशः पल्लवः पर्णं दलं पत्रं छदोऽङ्घ्रिकम् ।कलिका कोरकः कुड्मी प्रफुल्लो विकचः स्फुटः ॥ १५२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.136 · p. 15
मकरन्दः पुष्परसः परागं पुष्पजं रजः ।पत्रं पर्णं दलं बर्हं पलाशं छदनं छदः ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1972 · p. 325
पत्रं पर्णं पलाशं च छदनं चापि छदं दलम् ॥ १९७२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1999 · p. 330
पलाशः किंशुकः पर्णः वातपीथस्त्रिपत्रकः ।ब्रह्मपादपनाम्नाऽत्र पलाशः प्रथितो बुधैः ॥ १९९९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.25 · p. 58
पत्रं पात्रं दलं पर्णं पलाशञ्च च्छदः पुमान् ।च्छादनं च्छदनं बर्हं बर्हणञ्चापि पत्रकम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.56 · p. 61
स्यादङ्कोटस्तथाङ्कोलो निकोचकविकोचकौ ।पालाशः किंशुकः पर्णो वातपोथः पलाशकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.452 · p. 60
पुंसि च्छदश्छदनपत्रपलाशपर्ण-बर्हं दलं रजसि पुष्पभवे परागः ।निर्यासलग्नखपुरास्तु समाः प्रसून-बन्धस्तु वृन्तमथ सस्यफले समाने ॥ ४५२ ॥
वसन्ततिलका
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.457 · p. 60
तत्फलेऽथ स्त्रियामेव शिम्बी स्यात् फलकोशिका ।अश्वत्थपिप्पलगजाशनबोधिवृक्ष-यज्ञद्रुमाश्चलदलोऽथ पलाशपर्णौ ।यज्ञीयकिंशुकसमिद्द्रुमवातपोताब्रह्मद्रुमे स्युरथ दन्तशठः कपित्थः ॥ ४५७ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.17 · p. 46
पर्णं बर्हं पतत्रं च त्रयी शुङ्गास्य कोशिका ।पल्लवोऽस्त्री किसलयं किसलोऽपि नवे दले ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.29 · p. 47
पलाशे किंशुकः पर्णो वातपोथस्त्रिपर्णकः ।आस्फोतो ब्रह्मवृक्षश्च हस्तिकर्णदले कृती ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास णपादः Dharaṇikośa 14.1.3 · p. 48
जीर्णे पक्कपुराणे [च] भ्रूणोऽप्यर्भकगर्भयोः ।स्थूणा स्तम्बे च शूर्म्यां च पर्णाख्या किंशुके छदे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.9 · p. 195
पर्णः पुंसि तरौ दले तु गमने पाने सहाये तथासौपर्णेयपतत्रके च चरमे जर्णो जरच्चन्द्रयोः ।जीर्णः स्यात्तरुशीर्णयोरितरवत्पूर्णस्तु शब्दे पुमां-स्त्रय्यां पूरितकृत्स्नयोरथ भवेज्जीर्णं सुपक्वेऽपि च ॥ ९ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.12 · p. 43
त्वचो लवङ्गे पर्णस्य पक्षे क्ली किंशुके नरः ।रूक्षस्याञ्जनभेदे क्ली पुल्लिँङ्गो नागकेसरे ॥ १२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.715 · p. 104
पत्रं पुंस्यपि चान्येषां पक्षिपक्षे तरुच्छदे ।वाहने छुरिकायां च पर्णं तु क्ली तरुच्छदे ॥ ७१५ ॥
अनुष्टुप्
meanings
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.716 · p. 104
पलाशवृक्षप्रसवे पलाशाख्यतरौ तु ना ।पलं नृशण्डयोर्मांसे मानेऽप्यक्षचतुष्टये ॥ ७१६ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र णद्विः Śivakoṣa 11.1.155 · p. 15
पर्णं पलाशे पर्णस्तु सप्तपर्णे समिद्वरे ।पर्ण्युग्रगन्धाशम्पाकमहाक्लीतनिकासु च ॥ १५५ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.133 · p. 137
बोले वाते बले प्राणः पूर्णे पुं भूम्नि चासुषु ।पर्णं पक्षे च पत्रे च प्रोक्षणं सेचने वधे ॥ १३३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पर्यायसंयोगन्यायप्रदर्शनाध्यायः Vaijayantī 8.6.12 · p. 282
माक्षिके क्ली स्त्रियो लक्ष्म्यां नरः पद्मस्य सारसे ।त्वचो लवंगे पर्णस्य पक्षे क्ली किंशुके नरः ॥ १२ ॥
अनुष्टुप्

पर्ण as a meaning in nānārtha verses

  • धरणिकोश पत्रपत्रं स्याद्वाहने पर्णे पक्षे च शरपक्षिणोः । चैत्रं मृतकचैत्यं स्याच्चैत्रो मासान्तरेऽपि च ॥ Dharaṇikośa 26.2.18
  • धरणिकोश दलदलं खण्डे दलं पर्णे डुलिः स्यात्कमठी मुनौ । छलं स्यात्स्खलितं छद्म पलं सम्मानमांसयोः ॥ Dharaṇikośa 27.1.3
  • कोषकल्पतरु पत्रगात्रं तु देहेऽवयवे गजस्य जङ्घादिभागे नरलिङ्गहीनम् । पत्रं तु न स्त्री शरपक्षिपक्षे पर्णे तथा वाहन[ना]म्नि शस्तम् ॥ २६ ॥ Koṣakalpataru 6.27.26
  • कोषकल्पतरु दलनीचेऽधमे चाथ गलस्तु कण्ठे भवेत्तथा सर्जरसे नृलिङ्गः । चलोऽनिले कम्पगतोऽन्यवत्स्या- द्दलं तु पर्णे भवति स्त्रियां न ॥ ५० ॥ Koṣakalpataru 6.28.50
  • कोषकल्पतरु पलाशस्त्री नीलिकायां चरमे सुहेम्नि पलाश उक्तो रजनीचरेऽपि । शट्यां त्रिपर्णे हरितेऽन्तिमे तु पर्णे निवेशः शिबिरे विवाहे ॥ २० ॥ Koṣakalpataru 6.30.20
  • शिवकोष बृहत्वच्उपकुञ्ची राजिकायां क्षुद्रैलाकृष्णजीरयोः । तनुत्वगरणौ रोध्रे बृहत्वक् भूर्जपर्णयोः ॥ १०३ ॥ Śivakoṣa 5.3.103
  • शिवकोष सुपर्णीपुंस्याविग्ने च वानीरे सुपर्णः कृतमालके । सुपर्णा कमलिन्यां च सुपर्णी पर्णसौम्ययोः ॥ १६५ ॥ Śivakoṣa 11.2.165
  • शिवकोष देववृक्षकालमेषी समङ्गायां वाकुच्यां त्रिवृताभिदि । देववृक्षः पुरे पर्णे मन्दारादौ स्त्रुवोद्रुमे ॥ ५२२ ॥ Śivakoṣa 26.3.522
  • शब्दरत्नावली पत्रपत्रं पर्णे वाहने स्याद्बाणे पक्षे च पक्षिणः । पारी गजाङ्घ्रिरज्वाञ्च कर्करीपूरयोः स्त्रियाम् ॥ पात्रं योग्यस्रुवादौ च पृथिवीपालमन्त्रिणि । तीरयुग्मान्तरे क्लीबलिङ्गं स्याद्भाजने त्रिषु ॥ Śabdaratnāvalī 7.27.23
  • वैजयन्ती पत्रपत्रं तु वाहने पर्णे क्षुरिकागरुतोरपि । पयोंऽभसि च दुग्धे च पाथसी सलिलौदनौ ॥ २० ॥ Vaijayantī 6.3.20
  • वैजयन्ती बर्हपोत्रं मुखाग्रदेशे स्यात्सूकरस्य हलस्य च । नवनीतं पयः पीथं बर्हं पर्णशिखण्डयोः ॥ २२ ॥ Vaijayantī 6.3.22