All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
अन्तः
इति भगवता विदितनिखिलनिगमनिचयरहस्यविद्येन दिनमणिसमतेजसा सकलतत्त्वप्रकाशेन यादवप्रकाशेन विरचितायां वैजयन्त्यां शेषकाण्डे लिङ्गसङ्ग्रहाध्यायः
शेषकाण्डस्समाप्तः
इति यतिवरसंपूजितांघ्रिः प्रथितयशा भुवि यादवप्रकाशः ।व्यरचदभिधानशास्त्रमेतत् सह वचनैःसह लिङ्गसङ्ग्रहेण ॥
9.1 · p. 295
metre not recognisednearly पुष्पिताग्रा
एतां शुभामष्टभिरुक्तकाण्डैर्भूतस्वरूपैरिव नाममालाम् ।धत्तां विशाले हृदये मुरारिः स्वां वैजयन्तीव वैजयन्तीम् ॥
9.2 · p. 295
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
एवं सूक्ष्मन्यायनिर्णीतशब्दैः सर्वार्थानां व्यञ्जकोऽसौ निबद्धः ।संवित्तीनां भूषणं सत्कवीनां प्राप्तः पारं वैजयन्तीनिघण्टुः ॥
9.3 · p. 295
शालिनी
[नानाविद्यावेद्यवाग्रत्नमाला मूर्वं वेदयन्ती त्रिवेद्याः ।रोद्धुं बुद्धिध्वंसकध्वांतचक्रं प्राज्ञैर्ज्ञेया वैजयन्ती जयन्ती ॥]
9.4 · p. 295
शालिनीmetre not read in every linenearly शालिनी