स्थल
sthalaक्ली · neut.In 14 kośas: 18 synonym verses, 1 as a nānārtha head word, 8 as a meaning of another word.
genderक्लीneut.
genderक्लीneut.
उर्वरा सर्वसस्या भूर्भवेदिरिणमूषरम् ।खिलमप्रहतं स्थानं मरुर्धन्वा स्थलं स्थली ॥ १५८ ॥
अनुष्टुप्
genderक्लीneut.
मृत्सामृत्स्ने स्थलस्थल्यावुष ऊषश्च दृश्यते ।वल्मीकं वल्मिकं च स्यात् पथः पन्थाश्च कीर्तितः ॥ ७६ ॥
अनुष्टुप्
genderक्लीneut.
सक्षीरस्य तमिस्रस्य स्थालीकाहलयोरपि ।कदलीयुगलीजालस्थलानां पित्तलस्य च ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
उषवानूषवांस्त्रय्यामूषरश्चोषरेरिणौ ।स्थलं स्थला कृत्रिमं तत्स्थली तु स्यादकृत्रिमम् ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
अस्त्री वितानमुल्लोचः कदर्कः खजकश्च सः ।चन्द्रोदयश्चाथ भवेद्दूष्यं वस्त्रगृहं स्थलम् ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
दण्डमाथं धावति यो भेद्यवद्दाण्डमाथिकः ।श्रेणिर्द्वयोः कंशमयं स्थलं त्वशतभाजनम् ॥ ६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धा (wrong syllable)
genderक्लीneut.
एते शब्दाः नपुंसके भवन्ति । यथा इदं शवं मृतशरीरम् । पलकं नेत्ररोमविशेषः । तल्पं शयनीयम् । सद्म निवासः । बलिशं मत्स्यबन्धनम् । आमिशं गृहद्वारम् । निमित्तं कारणम् । पित्तं धातुविकारः । चित्तं मनः[नमः] । किल्बिषं पापम् । वृजिनं कुटिलम् । पीठमासनम् । पापं पातकम् ।बल्वजलाजासूनां पुंयोगः स्याद्बहुत्वं च ।स्थलशाद्वलशिबिराणां नपुंसकत्वं स्त्रियां पृतना ॥ ६० ॥
metre not recognised
genderक्लीneut.
सङ्गो ना सङ्गमे युद्धे लवणे तु नपुंसकम् ।सैन्धवाख्येऽथ नप्स्त्रीत्वे स्थली स्थलमिति द्वयम् ॥ १४६५ ॥
अनुष्टुप्
genderक्लीneut.
सर्वसस्या मही च स्यादुर्वरा मृत्तु मृत्तिका ।इरिणं तूषरं धन्वा स्थलं प्रोक्ता स्थली पुनः ॥ २३० ॥
अनुष्टुप्
genderक्लीneut.
शुम्बं तुम्बं कांस्यजालस्थलानिस्थाली गोला छर्द्यलाबूडवोऽथ ।शास्त्रं गात्रं काहलं मन्दिरं चवीर्यं नासीरापरे पित्तलापि ॥ १७२ ॥
शालिनी
genderस्त्रीक्लीf. n.
इरिणं चोषरं नाम प्रोक्तमूषरभूषु वै ।स्थलं स्थली च सा भूमिर्जलं यत्र न तिष्ठति ॥ १५९४ ॥
अनुष्टुप्
genderक्लीneut.
आस्पदं स्यात् पदं स्थानं सर्वसाधारणं स्थलम ।श्लेषस्त्रिमार्ग्याः शृङ्गाटं बहुमार्गी च चत्वरम् ॥ १६९४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
स्थली दैवकर्तृकेऽन्यत्स्थलं क्लीबे स्थलेत्यपि ।निर्जले मरुधन्वानौ खिलमप्रहतं समम् ।त्रिषु स्याज्जगती लोको जगद्भुवनपिष्टपम् ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
दिवः पृथिव्यौ च क्षारभूम्यामुषरमूषरम् ।इरिणवदीरिणं भूः कृत्रिमोच्चा स्थला स्थलम् ॥ ७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
पटच्चरो जीर्णवस्त्रं सिचयप्रोथशाटकाः ।पटवापः पटमयं दूष्यं वस्त्रगृहं स्थलम् ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
मरवः पुंसि धन्वान आसारी तु स्थली स्थलम् ।कचंगला तु नीलिंगी भूर्नानाजंतुसंयुता ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
विद्यादुन्नतभूभागे टाबन्ता तु स्थला स्त्रियाम् ।क्षेत्रादिनिम्नभूमिष्ठसलिलस्य निवारणे ॥ १४६६ ॥
अनुष्टुप्
meaningsउन्नतभूभाग
स्थल as a meaning in nānārtha verses
- कोषकल्पतरु धन्वन्स्कन्धे च कालेऽथ गिरौ घने च ग्रावोपले धन्व तु चापवाचि । स्थले तथा जाङ्गलदेशवा[ची] ब्रह्मा तु ना धातरि भूसुरे च ॥ ८६ ॥ Koṣakalpataru 6.21.86
- कोषकल्पतरु पल्लउद्वर्तनस्यापि च वाससि स्या- द्वल्ली तु दीप्ये कुसुमे लतायाम् । पल्ली कुटीग्रामकयोः पुमांस्तु स्थलस्य दिष्टापि कुशूलके च ॥ ९१ ॥ Koṣakalpataru 6.28.91
- नानार्थार्णवसंक्षेप अर्मअर्ममस्त्री स्थले ग्रामे नेत्ररोगान्तरेऽपि च । अट्टो नातिशये घाते क्षौमसंज्ञगृहान्तरे ॥ २५ ॥ Nānārthārṇavasaṃkṣepa 2.5.25
- नानार्थार्णवसंक्षेप धन्वन्ना तु धर्मे धन्व तु क्ली चापे व्योम्न्यथ शाश्वतः । स्थलेऽप्याह मरौ पुंसि ध्वजी तु ध्वजसंयुते ॥ ६३७ ॥ Nānārthārṇavasaṃkṣepa 2.5.637
- नानार्थार्णवसंक्षेप आसारीसैनिकानां प्रसरणे प्रसृतौ च स्त्रियां पुनः । आसारी स्यात् स्थलेऽथ स्यादाक्षिको नरलिङ्गकः ॥ २१३ ॥ Nānārthārṇavasaṃkṣepa 4.213
- परमानन्दीयनाममाला धन्वन्धृतिः सुखेऽध्वरे धैर्ये संतोषे धारणेऽपि च । कोदण्डस्थलयोर्धन्व धन्वा स्यान्मरुमण्डले ॥ २५५ ॥ Paramānandīyanāmamālā 5.17.255
- परमानन्दीयनाममाला धन्वन्दैवे दिष्टमकार्यादौ कट्वयूपे युगं स्मुतम् । असमासे मतं द्वन्द्वं नन्तं धन्व स्थलेऽपि च ॥ ७७ ॥ Paramānandīyanāmamālā 6.3.77
- शब्दरत्नावली धन्वन्तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57