All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
गान्ताः · गश्लोकः
॥ गश्लोकः ॥
गोशब्दः पशुभूम्यंशुवाग्दिगर्थः प्रयुज्यते ।स्वर्गलोचनबाणाम्बुकुलिशार्थोऽपि दृश्यते ॥
3.3.1 · p. 24
अनुष्टुप्
भगशब्दो यशोज्ञानवीर्ययत्नार्कयोनिषु ।वैराग्यैश्वर्यधर्मेषु इच्छालक्ष्म्योरपि स्मृतः ॥
3.3.2 · p. 24
अनुष्टुप्
मृगः पशौ कुरङ्गे च मृगयामृगशीर्षयोः ।हस्तिजातिप्रभेदे च मृगी स्त्रीभेदवाचिका ॥
3.3.3 · p. 24
अनुष्टुप्
नागाः स्युर्गजकाद्रवेयजलदा नागी गजी च स्मृतानागः सीसकरङ्गयोश्च करणे सूर्येन्दुयोगोद्भवे ।दुराचारिणि नागकेसरतरौ नागः स्मृतो मुस्तके[16] पुन्नागेऽपि च नागदन्तक इति श्रेष्ठे पदानुत्तरः ॥
3.3.4 · p. 24
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 1, syllable 1 दु (wrong syllable)
योगः स्यात्सदुपायसंनहनयोर्भैषज्यसंयोगयो-र्विष्कम्भादिषु योग आत्ममनसोः संनीलतायामपि ।संबन्धेऽपि च कार्मणेऽपि च तथा ध्याने च लाभेऽप्यसौयोगः सद्भिरुदीरितोऽथ वपुषः स्थैर्ये प्रयोगेऽपि च ॥
3.3.5 · p. 25
शार्दूलविक्रीडितम्
रागः क्लेशादिषु प्रोक्तो मात्सर्यलोहितादिषु ।अनुरक्तौ नृपे रागो रागो गान्धारिकादिषु ॥
3.3.6 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्य (wrong syllable)
भोः सुखे च वित्ते च सर्पस्य फणकाययोः ।पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिताम् ॥
3.3.7 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भङ्गो वीचिषु विख्यातो भङ्गो जयविपर्ययः ।भङ्गो भेदे रुजायां च भङ्गा शस्यं शणाह्वयम् ॥
3.3.8 · p. 25
अनुष्टुप्
अङ्गं चात्र उपाये च प्रतीके चाप्रधानके ।अङ्गो देशविशेषः स्यादङ्ग संबोधनेऽव्ययम् ॥
3.3.9 · p. 25
अनुष्टुप्
लिङ्गं सांख्योक्तपुरुषे लिङ्गं मेहनचिह्नयोः ।शिवमूर्तिविशेषे चानुमाने लिङ्गमिष्यते ॥
3.3.10 · p. 26
अनुष्टुप्
शृङ्गं विषाणे शैलाग्रे प्रभुत्वे जलयन्त्रके ।नीलौषधी सुवर्णानां भेदे शृङ्गी प्रयुज्यते ॥
3.3.11 · p. 26
अनुष्टुप्
सर्ग उत्साहनिर्माणनिश्चयाध्यायवाचकः ।निर्मोक्षे च स्वभावे च सर्गशब्दः प्रयुज्यते ॥
3.3.12 · p. 26
अनुष्टुप्
उत्सर्गस्त्यागसंदाने परित्यागे च कीर्तितः ।अपवादस्य विक्षेपे उत्सर्गः परिकीर्तितः ॥
3.3.13 · p. 26
अनुष्टुप्
त्रिवर्गो धर्मकामार्थे वृद्धिस्थान[17]क्षयेऽपि च ।रजःसत्त्वतमःसु स्यात्त्रिफलायां कटुत्रिके ॥
3.3.14 · p. 26
अनुष्टुप्
उपरागः परीवादे राहुग्रस्तेन्दुसूर्ययोः ।राहावप्युपरागः स्याद्व्यसनेऽपि प्रयुज्यते ॥
3.3.15 · p. 26
अनुष्टुप्