All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
चतुरक्षरकाण्डः (9/9)
पर्वतादुत्तरे वर्षे (त्रे?श्वे)ताख्या(त्) क्ली त्रिषु त्वदः ।सौवर्णे हृद्यगन्धस्तु पुमान् स्यात् सूक्ष्मजीरके ॥ ६९५ ॥
6.695 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हृद्यस्येव तु यस्य स्याद् गन्धस्तस्मिंस्त्रिषु स्मृतः ।हेमपुष्पः पुनः पुंसि चम्पकद्रौ स्त्रियां पुनः ॥ ६९६ ॥
6.696 · p. 86
अनुष्टुप्
पीतायां यूथिकायां स्याद्धेमपुष्प्यत्र पूर्ववत् ।हेमकुड्यं पुनः क्लीबे द्वीपभेदेऽम्बुधीकृते ॥ ६९७ ॥
6.697 · p. 86
अनुष्टुप्
खाते भारतवर्षस्य प्रदेशे सगरैः स्थिते ।अत्रापि पूर्ववत् साद्यमथो हैमवती स्त्रियाम् ॥ ६९८ ॥
6.698 · p. 86
अनुष्टुप्
पार्वत्यामपि गङ्गायां हरीतक्यां वचान्तरे ।शुक्ले स्यादोषधीभेदे स्वर्णक्षीरीति विश्रुते ॥ ६९९ ॥
6.699 · p. 86
अनुष्टुप्
क्ली तु हैमवतं वर्षे भारते भेद्यवत् पुनः ।हिमवद्गिरिसम्बन्धिमात्रे काण्डमपूर्यत ॥ ७०० ॥
6.700 · p. 86
अनुष्टुप्