भूर्ज
bhūrjaपुं · masc.In 14 kośas: 12 synonym verses, 19 as a meaning of another word.
पाटलिः पाटला भूर्जो बहुत्वक्को मृदुच्छदः ॥ ११४४ ॥
अनुष्टुप्
genderपुंmasc.
इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ ।
अनुष्टुप्
genderपुंmasc.
भूर्जो वल्कद्रुमो भूतध्रुक् सुचर्मापि चित्रलः ।भूर्यरक्षाबिन्दुमृदुपर्यायेभ्यच्छरो भुजः ॥ २०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बि (wrong syllable)
genderपुंmasc.
कवचार्द्धर्चयोः पुच्छकच्छाच्छानां व्रजस्य च ।निकुञ्जोटजकुञ्जानां तथैवापुञ्जभूर्जयोः ॥ १५३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मल्लिगन्धि तु मङ्गल्यमस्त्री भूर्जः स्थिरच्छदः ।चित्रपत्रो मृदुत्वक्को भूजो भूतहरः शिवः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कच्छो निकुञ्जो रज-भूर्ज-कुञ्ज-व्रजाङ्गजाः शङ्खगतस्तथाब्जः ।ध्वजो नटः कर्वटकुक्कुटाट्टाःकुटारकूटावपि कालकूटः ॥ ४१ ॥
उपजातिः
genderपुंक्लीm. n.
स्थूलपत्रो बृहत्पत्रः कृष्णलोध्रे तु गालवः ।भूर्जे भूजो बहुपटो मृदुत्वक्को मृदुश्छदः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
अर्धर्चः कवचः कच्छपुच्छोञ्छास्तु व्रजोटजौ ।[9] कुञ्जो मलयजो भूर्जध्वजाम्बुजसमास्तथा ॥ १३४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
भूर्जश्चर्मी बहुत्वक्को मृदुत्वक् च मृदुच्छदः ।भोजपत्रवृक्षस्य च नामान्येतानि सन्ति वै ॥ २०३२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
भूर्जो भुर्जः कर्णिकारे परिव्याधश्च व्याधवत् ।जलवेतसभेदे स्यादिज्जलो हिज्जलोऽपि च ॥ १६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 श्च (wrong syllable)
genderपुंmasc.
मृदुत्वक्चर्मिणौ भूर्जे भूर्जपत्रः सितच्छदः ।सर्जो निकोचकाङ्कोलौ बिल्वः श्रीफलबिल्वकौ ॥ ४७१ ॥
अनुष्टुप्
genderपुंmasc.
भूर्जपत्रे भुजो भूर्जो मृदुत्वक् चर्मिचर्मिकौ ।पीलौ गुडफलः स्रंसी श्यामश्चाथात्र शैलजे ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
भूर्ज as a meaning in nānārtha verses
- कोषकल्पतरु पत्राङ्गगुह्ये गुडत्वचि शिरोगजयोर्वराङ्गं पत्राङ्गमाहुरिह पद्मकभूर्जयोश्च । कोके रथाङ्ग उदितश्चरमे तु चक्रे धाराङ्ग आदिमगतोऽप्यसितीर्थवाची ॥ २२ ॥ Koṣakalpataru 6.3.22
- कोषकल्पतरु शितियतिर्निकारे यतिनि स्मृतो ना स्त्री पाठविच्छेदनवाचकः स्यात् । शितिः स भूर्जे सितकृष्णयोर्ना तत्संयुते स्यान्निशिते पराभम् ॥ ४९ ॥ Koṣakalpataru 6.16.49
- कोषकल्पतरु कृत्तियुतिस्तथामिश्रण मिश्रणेषु च्युतिर्वराङ्गे च्यवने तथोक्ता । त्वक्चर्मणोः कृत्तिरिहापि भूर्जे स्यात्कृत्तिकावाच्यथ भित्तिरुक्ता ॥ ५७ ॥ Koṣakalpataru 6.16.57
- नानार्थार्णवसंक्षेप भुजभूर्जसंज्ञद्रुमे नृस्त्री बाहौ भूमानगोचरे । पदार्थभेदे च भुरिक् पुनः स्त्री बाहुकन्दयोः ॥ ९११ ॥ Nānārthārṇavasaṃkṣepa 2.5.911
- नानार्थार्णवसंक्षेप पत्राङ्गपतत्त्रं गरुति व्योम्नि पत्राङ्गं रक्तचन्दने । भूर्जे च पतनं तु स्यात् पा(त्रे?ते) तरुपलाशके ॥ ५० ॥ Nānārthārṇavasaṃkṣepa 3.3.50
- नानार्थार्णवसंक्षेप मृदुत्वच्इन्द्रवारुणिकासंज्ञे मृगनेत्रेषु तु त्रिषु । अथ प्राहुर्मृदुत्वक् स्याद् भूर्जाह्वयमहीरुहे ॥ १४४४ ॥ Nānārthārṇavasaṃkṣepa 4.1444
- परमानन्दीयनाममाला पत्रपत्रं पक्षे दले भूर्जे वाहनेऽपि निगद्यते । पोत्रं शूकररक्त्राग्रे हलाग्राम्बरयोरपि ॥ २९० ॥ Paramānandīyanāmamālā 5.19.290
- शिवकोष पत्राङ्गनागरङ्गोपि पत्राङ्गं पद्मके रक्तचन्दने । भूर्जे परागः सुमनोरेणुः पर्पटचन्दने ॥ ९१ ॥ Śivakoṣa 3.2.91
- शिवकोष बृहत्वच्उपकुञ्ची राजिकायां क्षुद्रैलाकृष्णजीरयोः । तनुत्वगरणौ रोध्रे बृहत्वक् भूर्जपर्णयोः ॥ १०३ ॥ Śivakoṣa 5.3.103
- शिवकोष कृत्तिकृत्तिर्भूर्जे त्वचायां स्त्री घृतमाज्ये जलेऽपि च । जातिर्जातीफले धात्र्यां मालत्यां रक्तचूर्णके ॥ १७८ ॥ Śivakoṣa 12.1.178
- शिवकोष शिम्बिशिवा कुम्भ्यभयाधात्रीभूमिधात्रीशमीषु च । शिम्बिर्भूर्जे च बकुले स्वाद्वी श्रेणीरसालयोः ॥ ५०२ ॥ Śivakoṣa 24.1.502
- शब्दरत्नावली कृत्तिकुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके । कृतं स्यादलमर्थे च विहिते युगभेदके ॥ हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते । स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् ॥ कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् । केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च ॥ गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे । ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥ Śabdaratnāvalī 7.16.9
- शब्दरत्नावली शितिशान्तोऽभियुक्तरसभिच्छान्तियुक्तेषु पुंस्ययम् । शितिस्त्रिषु सिते कृष्णे भूर्जे सारेऽपि च द्वयोः ॥ Śabdaratnāvalī 7.16.58
- शब्दरत्नावली चर्मिन्ग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च । गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके ॥ गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी । गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु ॥ चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु । चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् ॥ चक्री काककुलालाजग्रामजालिकसूचके । सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् ॥ चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः । चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् ॥ चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् । छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे ॥ छदनं चलने पक्षे पिधानेऽपि नपुंसकम् । छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः ॥ जवनस्तु रये वेगिहये वेगवति त्रिषु ॥ Śabdaratnāvalī 7.20.55
- शब्दरत्नावली लेखनरोचना स्त्री तु गोपित्ते रक्तकह्लारयोषितोः । रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु ॥ रोही वटद्रुमेऽश्वत्थे तया रोहितके पुमान् । लङ्घनं क्रमणे चोपवासे प्लवनेऽपि च ॥ ललना स्त्री शिवाभेदरसनाकामिनीषु च । लेखनन्तु लिपिन्यासे भूर्जे च छर्दनेऽपि च ॥ वर्जनं हिंसने दाने तथा त्यागविशेषके । वपनं मुण्डने क्लीबं वीजाधानेऽपि तत्स्मृतम् ॥ Śabdaratnāvalī 7.20.70
- शब्दरत्नावली शिविविश्वा त्वतिविषायाञ्च स्त्रियां सिन्धुनदीभिदि । शवं जलेऽस्त्री कुणये शिविर्भूर्जे भूपान्तरे ॥ Śabdaratnāvalī 7.29.20
- त्रिकाण्डशेष शितिवेतसेऽपि च शीतो ना शुक्तं पूताम्लनिष्ठुरम् । शितिर्भूर्जे सिते कृष्णै श्रीमन्तौ तिलकेश्वरौ ॥ १८७ ॥ Trikāṇḍaśeṣa 3.3.187
- त्रिकाण्डशेष चर्मिन्कम्प्रे ना चलनं कम्पे चलनी वस्त्रघर्घरी । भूर्जे फलकपाणौ च चर्म्यऽथालम्बुषे पुमान् ॥ २३९ ॥ Trikāṇḍaśeṣa 3.3.239
- त्रिकाण्डशेष लेखननिशा हरिद्रा रजनी छदे भूर्जे च लेखनम् । राशीनामुदयो लग्नं सक्तलज्जियोस्त्रिषु ॥ २५७ ॥ Trikāṇḍaśeṣa 3.3.257