कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

समीक

samīkaक्ली · neut.

In 13 kośas: 13 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.606 · p. 32
प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौर्यौजसीशुष्मं शुष्म च शक्तिरूर्जसहसी युद्धं तु संख्यं कलिः ।संग्रामाहवसंप्रहारसमरा जन्यं युदायोधनंसंस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥ ७९६ ॥द्वन्द्वं समाघातसमाह्वयाभिसंपातसम्मर्दसमित्प्रघाताः ।आस्कन्दनाजिप्रधनान्यनीकमभ्यागमश्च प्रविदारणं च ॥ ७९७ ॥समुदायः समुदयो राटिः समितिसंगरौ ।अभ्यामर्दः संपरायः समीकं सांपरायिकम् ॥ ७९८ ॥आक्रन्दः संयुगश्चाथ नियुद्धं तद्भुजोद्भवम् ।
शार्दूलविक्रीडितम्
प्राणपुंस्थामन्क्लीतरस्क्लीपराक्रमपुंबलक्लीद्युम्नक्लीशौर्यक्लीओजस्क्लीशुष्मक्लीशुष्मन्क्लीशक्तिस्त्रीऊर्जस्क्लीसहस्क्लीयुद्धक्लीसंख्यक्लीकलिपुंसंग्रामपुंआहवपुंसंप्रहारपुंसमरपुंजन्यक्लीयुध्स्त्रीआयोधनक्लीसंस्फोटपुंकलहपुंमृधक्लीप्रहरणक्लीसंयत्स्त्रीरणपुंविग्रहपुंद्वन्द्वक्लीसमाघातपुंसमाह्वयपुंअभिसंपातपुंसंमर्दपुंसमित्स्त्रीप्रघातपुंआस्कन्दनक्लीआजिस्त्रीप्रधनक्लीअनीकक्लीअभ्यागमपुंप्रविदारणक्लीसमुदायपुंसमुदयपुंराटिस्त्रीसमितिस्त्रीसंगरपुंअभ्यामर्दपुंसंपरायपुंसमीकक्लीसांपरायिकक्लीआक्रन्दपुंसंयुगक्लीनियुद्धक्ली
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.175
वीरपानं तु यत्पानं वृत्ते भाविनि वारणे ।युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् ।अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥सम्प्रहाराभिसम्पात कलिसंस्फोट संयुगाः ।अभ्यामर्द समाघात संग्रामाभ्यागमाहवाः ॥ १०५ ॥समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.453 · p. 52
सङ्ग्रामः समितिः समिच्च समरं संख्यं समीकं रणं,युद्धं युत्प्रधनं मृधं समुदयः संयत्कलिः संयुगम् ।द्वन्द्वायोधनसम्प्रहारकलहाक्रन्दाहवाभ्यागमाः,संस्फोटप्रविदारणप्रहरणानीकाजयः सङ्गरः ॥ ४५३ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.346 · p. 127
मृधमास्कन्दनं संख्यं समीकं साम्परायिकम् ।जन्यं पुमान् सम्प्रहारो नदनुः कलहो रणः ॥ ३४६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.57 · p. 268
युद्धास्कन्दन-सांपरायिक-मृधं द्वंद्वं समीकं तथाजन्यं च प्रविदारणं प्रधनवच्चायोधनं भण्डनम् ।आडम्बरोऽस्त्री पटहो चङ्गलः सूरयो रणः ।ग्राममद्गुरिका ग्राम[123b]युद्धं दोर्भ्यां तु तन्मिथः ॥ ५७ ॥
शार्दूलविक्रीडितम्two metres in one verse
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.396 · p. 151
संगरः समिति राटिः समुदायो विदारणम् ।अभ्यामर्दः समीकं च सम्परायो मृधं च युत् ॥ ३९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.385 · p. 74
आमर्दः कलहः क्षेपः प्रधनं प्रविदारणम् ।समीकं समरः सङ्गः साम्परायिकमित्यपि ॥ ३८५ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.34 · p. 37
संयत्समितिराजिर्युध् द्वंद्वमास्कन्दनं मृधम् ।राटिः समीकं संस्फोटो विग्रहः कलहः कलिः ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1325 · p. 209
समीकमऽभिसम्पातः प्रघातः प्रविदारणम् ।संस्फेटश्चापि संफेटः संस्फोटः समरो रणः ॥ १३२५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.349 · p. 134
पुंनपुंसकयोः शल्यं पुंसि शङ्कुविषाक्षरौ ।शूलं समीकं समिकं त्रिशूलन्तु त्रिजालकम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.374 · p. 135
युद्धमास्कन्दनं जन्यं प्रधनं साम्परायिकम् ।मृधमायोधनं संख्यं समीकं प्रविदारणम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1376 · p. 167
कदनप्रथनक्रन्दनसंख्यसमीकानि संविदाजियुधः ।संयत्समितौ समितिः समररणानीकमस्त्रियां त्रितयम् ॥ १३७६ ॥
गीतिः
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.6 · p. 196
शीतले शीकरः शीतः सुषिकः सुषिमो जडः ।समीकः सोलिकः सोलः स्कन्दोलो मेकलस्तलः ॥ ६ ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.232 · p. 31
स्यमीकस्त्वपि वल्मीके नृपगोत्रे च कुत्रचित् ।वृक्षेऽप्यथ समीकः स्यादर्णवे मिथुनेऽपि च ॥ २३२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.75 · p. 245
मन्त्री सहायः सचिवः सहुरी वृषभास्करौ ।स्यमीकौ वृक्षवल्मीकौ समीकौ मिथुनार्णवौ ॥ ७५ ॥
अनुष्टुप्