स्पर्श
sparśaपुं · masc.In 16 kośas: 26 synonym verses, 8 as a nānārtha head word, 14 as a meaning of another word.
रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥ ७ ॥गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् ।
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
प्रदेशनं विश्रणनमतिसर्जनमित्यपि ।विसर्जनं च पुंसि स्यादुत्सर्गः स्पर्श इत्यथ ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दस्पर्शरूपरसगन्धा भूतगणाः क्रमात् ।विषयाः स्युरमी ह्येषामिन्द्रियार्थश्च गोचरः ॥ १५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्श (wrong syllable)
genderपुंmasc.
स्पर्शाः काद्या मावसाना व्यापका यादिहान्तगाः ।द्व्यधिका विंशतिरचो दीर्घाभावाल्ऌसंज्ञके ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
त्रिष्वार्थिकं तथार्थ्यं च भवेदर्थान्वितं हि यत् ।* * * * * * * * वर्णोऽस्त्र्यक्षरमन्तिमे ।अचः स्वरा व्यञ्जनं हल् वर्गाः स्पर्शास्तथोहितः ॥ ६१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
स्पार्शनः स्पर्शनः स्पर्शस्त्वङ्मयः स चतुर्विधः ।उष्णः शीतः कठोरश्च मृदुस्तद्वत्त्वमी त्रिषु ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
ऊर्मिपुंतरङ्गपुंध्वनिपुंशब्दपुंअञ्जलिपुंकरपुटपुंओष्ठपुंअधरपुंदन्तच्छदपुंकपोलपुंगण्डपुंगुल्फपुंपादग्रन्थिपुंघुठपुंघूंठपुंपादपुंरोगपुंवेगपुंस्पर्शपुंपाकपुंत्यागपुंयोगपुंप्रसादपुंभेदपुंछेदपुंदाहपुंदोषपुंप्रकारपुंविकारपुंजयपुंनयपुंकरपुंवरपुंभरपुंशरपुंनरपुंप्लवपुंपवपुंभवपुंअन्धकारपुंक्लीवस्तिपुंकुक्षिपुंपाणिपुंजङ्घास्त्रीशिरास्त्रीस्नुषास्त्रीनासिकास्त्रीचूडास्त्रीवसास्त्री
genderपुंmasc.
एते शब्दाः नपुंसके भवन्ति । इदं भयं त्रासः । बीजमङ्कुरोत्पत्तिकारणम् । सिध्मं कुष्ठविशेषः । पदं स्थानम् । बर्हं मयूरपिच्छम् । शुक्रं रेतः । तक्रं[क्र] मथितम् । सुखं भोगः । दुःखं पीडा । शिखरं शृङ्गम् । असृक् रक्तम् । सदैवेति वचनाद्भयादीनां व्यभिचारः । अयं भयः ।पाषाणोपलशृङ्गारप्रस्थभृङ्गारमस्तकस्तबकाः ।रूपं मुक्त्वा शब्दरसस्पर्शगन्धादयश्चोक्ताः सदा पुंसि ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
एते शब्दाः सदा पुंसि भवन्ति । यथा पाषाणः प्रस्तरः । उपलः शिला पाषाण एव । शृङ्गारो विदग्धता । प्रस्थः परिमाणम् । भृङ्गारः सुवर्णमयः कलशः । मस्तकः शिरः । स्तबकः पुष्पोत्करः । शब्दो ध्वनिः । रसो माधुर्यादिः । स्पर्शो मृदुकर्कशादिः । गन्धो नासिकाग्राह्यः कुसुमादेः । रूपं मुक्त्वा रूपं विहाय ।रूपं नपुंसके भवति । इदं रूपं चक्षुर्ग्राह्यम् ।शेखरयूपपुरोडाशकूपसूपलवशष्पाः ।धर्ममयवासोदशादाराः पुंसि बहुत्वं चैषाम् ॥ ५५ ॥
metre not recognised
genderपुंmasc.
रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ।गोचरा इन्द्रियार्थाश्च विशिष्यैवं विभाव्यताम् ॥ २७६ ॥
अनुष्टुप्
genderपुंmasc.
क्षेपण्यश्वसनो मारुत्पृषदश्वो मलिम्लुचः ।स्पर्शश्च स्पर्शनो वीरुदाशुगश्च प्रभञ्जनः ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
स्पर्शः संस्पर्शनं तग्जो जगत्प्राणेन्द्रियोद्भवः ।
genderपुंmasc.
genderपुंmasc.
अविद्याऽहंमतिः स्त्री स्यादज्ञाने परिकीर्तिता ।रूपः शब्दस्तथा गन्धो रसः स्पर्शस्तु पञ्च वै ॥
अनुष्टुप्
genderपुंmasc.
प्रादेशनं वितरणं स्पर्शनञ्चातिसर्जनम् ।स्पर्शो विसर्गः क्षणनं प्रदेशननं विहापितम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शन (syllable split)
genderपुंmasc.
प्रसितिर्बध्यते येन बन्धनञ्चार इत्यपि ।स्पर्शः स्प्रष्टोपतप्ता च रोगभेदे निगद्यते ॥
अनुष्टुप्
genderपुंmasc.
चाटुकारे चक्र-गण्डावपि, स्परिशः स्पर्शवत् ।शिशिरे शीतलः शीतः सुसीमश्च सुषीमवत् ॥ १० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 शः (wrong syllable)
genderपुंmasc.
शब्दस्पर्शरसा रूपं गन्धश्च विषया अमी ।इन्द्रियार्था इन्द्रियं तु स्यादक्षं करणं च तत् ॥ २८७ ॥
अनुष्टुप्
genderपुंmasc.
स्पर्शाः स्युः कादयः पञ्चविंशतिर्मावसानकाः ।स्त्रियोऽन्तस्था यरलवास्त्रिलिङ्गस्त्वनुनासिकः ॥ १२४३ ॥
अनुष्टुप्
genderपुंmasc.
वियत् स्पर्शश्च हृद्धंस इला ग्रासः क्रमाः स्मृताः ।मातृकावर्णसंज्ञास्तु ता ज्ञात्वा चोद्धरेन्मनून् ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
अथ कादिमते प्रोक्ता संज्ञा भूतलिपेः क्रमात् ।वातो मरुच्चरः प्राणो वायुर्नादो रयो जवी ।व्याप्तं स्पर्शो वायुजानां संज्ञा प्रोक्ता मनीषिभिः ॥ ५६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वातः-अ, मरुत्-आ, चरः-ए, प्राणः-क, वायुः-ख, नादः-ट, रयः-त, जवी-प, व्याप्तं-य, स्पर्शः-ष
genderपुंmasc.
आशुगः पवनः स्पर्शः पवमानः प्रभञ्जनः ।मरुद्धूलिध्वजो मर्कः समीरोऽग्निसखश्चलः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
कादयो व्यञ्जनाः क्ली वा स्पर्शास्ते मावसानकाः ।स्त्रियोंऽतः स्था यरलवा ऊष्माणः शषसाः सहाः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
खादीनां तु गुणाः शब्दः स्पर्शो रूपं रसः क्रमात् ।गंधश्चेतीन्द्रियार्थास्ते विषया गोचराश्च ते ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
दर्शस्तु स्यादमावास्या यश्चात्र वैदिको विधिः ।स्पर्शः स्यात्स्पर्शके रोगे दानस्पर्शनयोरपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्र (wrong syllable)
लोध्रे तथा गन्धरसेऽथ दर्शःसूर्येन्दुसङ्गेऽप्यवलोकनेऽपि ।श्रौते च पक्षान्त विधौ तथाथस्पर्शो भवेत्स्पर्शनदानयोश्च ।त्वाचे गुणेऽर्तौ च नृवैश्ययोस्तुनास्त्री प्रवेशे विडिह प्रजायाम् ।मले न ना स्त्री तु खगादिबन्धेकचोत्तरस्थो निकरे च पाशः ।कर्णान्तगः शोभनवाचकः स्या-न्निन्दार्थकश्चात्र परस्थितोऽयम् ।नाशो विनाशानुपलम्भयोः स्यात्पलायनेऽथ क्षवथौ पुमान्स्यात् ॥ ६ ॥
इन्द्रवज्राtwo metres in one verse
पुनर्जारेऽवदद्द्वे तु स एवाब्रूत किङ्करे ।त्रि तु स्प्रष्टरि सिंहस्तु पठति स्मोपतप्तरि ॥ १४५३ ॥
अनुष्टुप्
doubtful
स्पर्श as a meaning in nānārtha verses
- धरणिकोश स्पर्शनशकुनिः करणे च स्याच्छकुनी पक्षिसौबलौ । स्पर्शनो मरुते ज्ञेयः स्पर्शनं स्पर्शदानयोः ॥ Dharaṇikośa 19.2.33
- धरणिकोश छुपरेपः स्यादधमे क्रूरे छुपः स्पर्शे क्षुपे तथा । कृपा दया कृपो व्यासो वपा विवरमेदसोः ॥ Dharaṇikośa 20.1.2
- कोषकल्पतरु छुपतिहुडति स्यादथ स्पर्शे छुपति स्पृशतीति च । शीकति स्याच्छीकयति चीकयत्यपि चीकति ॥ ६ ॥ Koṣakalpataru 3.5.6
- कोषकल्पतरु आलभतेप्रादुष्कृतौ व्यलीकस्य प्रतेर्विनिमये भवेत् । उपाद्ज्ञानेच्छयोराप्तौ वधे स्पर्शे तथाङ्परः ॥ ८१ ॥ Koṣakalpataru 3.5.81
- कोषकल्पतरु स्पर्शनत्वगिन्द्रिये स्पर्श इहापि दाने स्यात्स्पर्शनं पुंसि तु तत्समीरे ॥ २४ ॥ Koṣakalpataru 6.21.24
- कोषकल्पतरु उपस्पर्शनवर्णे विसर्जनीयेऽप्यभिनिष्टानः स्मृतो विज्ञैः । स्नाने स्पर्शे चोपस्पर्शनमुक्तं तथाचमने ॥ ६० ॥ Koṣakalpataru 6.21.60
- कोषकल्पतरु उपांशुउपांशुरुक्तो जपभेदकेऽथा- व्ययं विविक्तेऽथ यवासके स्यात् । स्यात्कण्टकार्यां परवत्कठोरे स्पर्शे विपाशा तु नदीविभेदे ॥ २५ ॥ Koṣakalpataru 6.30.25
- कोषकल्पतरु उपस्पर्शस्याद्वेष्टनेऽथाचमनाप्लवार्थः स्यात्स्पर्शमात्रेऽथ नरे च वैश्ये । भूमिस्पृगुक्तोऽथ खलेऽन्यवत्स्या- च्छनैश्चरे क्रूरदृगादिलिङ्गः ॥ ३० ॥ Koṣakalpataru 6.30.30
- नानार्थार्णवसंक्षेप उपस्पर्शनस्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि । उपवर्तनमित्येतदश्वानां लुठने क्षितौ ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 7.6
- शब्दरत्नावली स्पर्शनसन्तानो गोत्रसन्तत्योरपत्ये च सुरद्रुमे । स्पर्शनं पवने पुंसि क्लीबं स्यात्स्पर्शदानयोः ॥ Śabdaratnāvalī 7.20.90
- शब्दरत्नावली उपस्पर्शनस्नानेऽप्या चमने स्पर्शे स्यादुपस्पर्शनं तथा । सुसंस्कृते विनिहते उपसम्पन्नमीरितम् ॥ Śabdaratnāvalī 7.20.132
- त्रिकाण्डशेष स्पर्शनसुप्तज्ञाने च शयने स्वप्नोऽथ स्पर्शदानयोः । स्पर्शनं स्पर्शनो वाते सूनं पुष्पे वधालये ॥ २७० ॥ Trikāṇḍaśeṣa 3.3.270
- वैजयन्ती आलम्भअप्याकर्षणमाक्षेप आलंभः स्पर्शहिंसयोः । ईशानौ हरिधातारावुत्सेधौ वपुरुन्नती ॥ १० ॥ Vaijayantī 7.1.10
- वैजयन्ती उपस्पर्शनस्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि । दुग्धाम्रे दुग्धतालीयं स्यात् फेनेऽपि च दुग्धजे ॥ १४ ॥ Vaijayantī 8.3.14