कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

घनरस

ghanarasaपुं · masc.

In 15 kośas: 13 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1 · p. 42
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशंतोयं जीवनजीवनीयसलिलार्णांस्यम्बु वाः संवरम् ।क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसीकीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९ ॥कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।
शार्दूलविक्रीडितम्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.2
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.648 · p. 74
आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
मन्दाक्रान्ता
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.13 · p. 345
काण्डोऽस्त्रियां घनरसो नरा नारा अपि स्त्रियाम् ।भूम्नि गावः स्त्रियां भूम्नि गौः स्त्रियामपि सर्वतः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.4 · p. 99
कमलं क्षीरं भुवनोस्वीस्यं(?)घनरसं कुशम् ।यादो वासो(?)वर्णसिर्ना नोडुः पुंसि स्त्रियां त्विरा ॥ ४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रं (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.347 · p. 47
अम्भो घनरसः पुंसि वाः क्लीबे रत्नमुच्यते ।अगाधमतलस्पृक् चास्थागमस्ताघमेव च ॥ ३४७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.29 · p. 126
संवरं शम्बरं चापि संभारं सर्वतोमुखम् ।पुष्पं च मेघपुष्पं च रसं घनरसं तथा ॥ २९ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.111 · p. 13
उदकं पुष्करं क्षीरममृतं सर्वतोमुखम् ।कङ्कबन्धं घनरसमापो वा कमलं विषम् ॥ १११ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1857 · p. 303
पयो यादोनिवासश्च घनरसस्तथोदकम् ।इरा दिव्यं विषं सेव्यं षड्रसं घृतमऽरङ्कुरम् ॥ १८५७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.40 · p. 39
अर्णः कवन्धममृतं मेघपुष्पञ्च कम्बलम् ।नारा घनरसः पात आपः स्यन्दनसम्बलम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.318 · p. 43
अम्भःपुष्करवारितोयजलवाःपाथोवनार्णःपयः-पनीयोदकमेघपुष्पसलिलक्षीराम्बुनीरामृतम् ।कीलालं भुवनं कबन्धकमले तज्जीवनं शम्बरंनारः पुंसि कमव्यये धनरसो नापस्तु भूम्नि स्त्रियाम् ॥ ३१८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 1 प (wrong syllable)
genderपुंmasc.doubtful
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 75 · p. 535
नारं घनरसः पुमान् ॥ ७५ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.3 · p. 154
वार्नपुंसि स्त्रियो भूमन्यापो घनरसः पुमान् ।वल्लूरं तु सितं तोयमतिक्षारं तु किट्टिमम् ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.16 · p. 384
घनरस उक्तो नीरे निर्यासे मोरटे सान्द्रे ।कर्पूरे सिद्धरसेऽस्त्रियां भवेत्पीलुपर्ण्यर्थे ॥ १६ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.213 · p. 44
नपुंसकस्तु पुच्छे गोरथो घनरसो नृनप् ।जले पूर्ववदत्रापि समासादि स्त्रियां पुनः ॥ २१३ ॥
अनुष्टुप्
meaningsजल
शिवकोष Śivakoṣa · शिवदत्तमिश्र सच Śivakoṣa 27.3.531 · p. 48
अथो घनरसः पीलुपर्ण्यां च क्षीरमोरटे ।हिमोपले मेघपुष्पे दक्षिणावर्तपारदे ॥ ५३१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सान्ताः Śabdaratnāvalī 7.32.44 · p. 296
कुम्भीनसः क्रूरसर्पे स्त्रियां लवणमातरि ।भवेद्धनरसः सान्द्रनिर्यासे मोरटेऽम्बुनि ॥
अनुष्टुप्
doubtful