कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भ्रमरक

bhramarakaपुं · masc.

In 13 kośas: 17 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.569 · p. 25
स तु भाले भ्रमरकः कुरुलो भ्रमरालकः ॥ ५६९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.96
ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.531 · p. 61
हस्तः पक्षः पाशः केशेषु बहुत्ववाचकाः शब्दाः ।अलकं कुटिलाः केशा भ्रमरकमुक्तं ललाटस्थम् ॥ ५३१ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.136 · p. 35
भाले भ्रमरकोऽस्त्री स्यात् कुरुलो भ्रमरालकः ।धम्मिल्लः संयताः केशाः केशवेशे कवर्यपि ॥ १३६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.143 · p. 477
एकाद्रात्रः समाहारे तथा सूतकुकूलकौ ।वलीकवैनीतकयोस्तद्वद्भ्रमरकस्य च ॥ १४३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.25 · p. 221
भाले त्वस्त्री भ्रमरकः कुरलो भ्रमरालकः ।कबरी केशवेषोऽथ धम्मिल्लः संयताः कचाः ॥वेणिः प्रवेणिः शीर्षण्य-शिरस्यौ विशदे कचे ।केशेषु वर्त्म सीमन्तः शिखा तु स्याच्छिखाण्डिका ॥ २५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.39 · p. 231
एवं स्यात्संमुखीनेऽथ न स्त्री भ्रमरको गुडः ।गिरिर्गुडेरो गण्डोलो गडोलोऽस्त्री तु कन्दुकः ॥ ३९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.37 · p. 111
अलक-वालक-मालक-मूलकाः[231b] करक-कोरक-मोदक-यावकाः ।***भ्रमरको मणिकस्तथाफलक-पुस्तक-मस्तक-मुस्तकाः ।पुलकस्तिलको झर्झरकश्चरक-हंसकौ ।मधुपर्कश्च फटकः सरकः श्वपकस्तथा ।किञ्जल्कः कटकोऽथामलकः स्यात्फलवाचकः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
नाममालिका Nāmamālikā · भोज स्वर्गादिनामधेयप्रकरणम् Nāmamālikā 1.26 · p. 4
राजराजः कुबेरः स्यात्तत्सुतो मणिकण्ठकः ।तत्सेवधिः सुभाग्यः स्यात्पुरं भ्रमरकाह्वयम् ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.235 · p. 130
कुरुलो भ्रमरकस्तुल्यौ भाले स्याद्भ्रमरालकः ।बद्धकेशेषु धम्मिल्लः केशवेषे कबर्यपि ॥ २३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.131 · p. 227
मोदको मूषिकश्चैव रोचकातङ्ककञ्चुकाः ।चण्डातकभ्रमरकौ वैनीतककरण्डकौ ॥ १३१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.911 · p. 138
भ्रमरकः कुरलश्च ललाटे भ्रमरालकः ॥ ९११ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.323 · p. 103
अथ भ्रमरकास्ते स्युरलकाश्चेत् कपालगाः ।शिशुकः काकपक्षश्च शिशुपार्श्वस्थकुन्तले ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.155 · p. 201
चिकुरश्चिहुरः केशे ललाटस्यालके पुनः ।भ्रमरकः स्याद्भ्रमरालको वेणिः प्रवेणियुक् ॥ १५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 म (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1089 · p. 135
कबरी केशवेशः स्यादलकाश्चूर्णकुन्तलाः ।भालगात्रे भ्रमरकाः परौ तु विशदे कचे ॥ १०८९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.135 · p. 134
भ्रामरं तु भ्रमरकं क्षौद्रं सारघमाक्षिके ।अन्वर्थं पौत्तिकं दालं दद्रुजं रूक्षवालुकम् ॥ १३५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.99 · p. 181
ते ललाटे भ्रमरकाः कुरुला भ्रमरालकाः ।पर्पर्यां स्याद्वल्लरीका झल्लर्यां झपटिः क्षुवः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.53 · p. 12
कौक्कुटिको दाम्भिकः स्याद्यश्चादूरेरितेक्षणः ।भ्रमरकाः स्युर्भ्रमरललाटवृत्तकुन्तलाः ॥
metre not recognised
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.28 · p. 153
अरुणसैर्यककचोरयोः पुनःकुरबको दनुजेऽपि बलाहकः ।जलदरोगभिदोर्भ्रमरे पुन-र्भ्रमरको गिरिकेऽलिककुन्तले ॥ २८ ॥
द्रुतविलम्बितम्metre not read in every line
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.187 · p. 188
गिरिकेऽलकभेदे च भृङ्गे भ्रमरको मतः ।तापसे नाट्यवाग्भेदे नृपे भट्टारको मनः ॥
अनुष्टुप्