कलभ
kalabhaपुं · masc.In 15 kośas: 18 synonym verses, 3 as a meaning of another word.
पञ्चवर्षो गजो बालः स्यात्पोतो दशवार्षिकः ॥ १२१९ ॥विक्को विंशतिवर्षः स्यात्कलभस्त्रिंशदब्दकः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
genderपुंmasc.
कलभः करिपोतः स्यादङ्कुशः सृणिरुच्यते ।औपवाह्यो राजवाह्यः सन्नाह्यः समरोचितः ॥ २२४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चवर्षो गजो बालः पोतस्तु दशवार्षिकः ।विक्को दिक्कोपि विंशाब्दस्त्रिंशाब्दः कलभोऽस्त्रियाम् ॥ १४९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
खर्जूघ्नः कालहा पुष्पः खरकण्टफलोऽपि सः ।मोहनो मातुलः श्यामः शैवः कलभमत्तकौ ॥ २२८ ॥
अनुष्टुप्
genderपुंmasc.
वष्पविष्टपयोश्चापि तथैव शफबिम्बयोः ।डिंभजम्भकुसुम्भानां निभस्य कलभस्य च ॥ १७० ॥
अनुष्टुप्
genderपुंक्लीm. n.
पोतस्तु दशवर्षोऽसौ विष्को विंशतिहायनः ।विक्कः शुण्डारकोऽस्त्री तु कलभस्त्रिंशदब्दकः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
द्वीपो निपः कुणपमण्डपबाष्पशष्प-यूपानि विष्टपयुतः कुतपोष्मपौ च ।तल्पः शफोऽप्यथ च कम्बु सडिम्ब[बि]म्बंजम्भः कुसुम्भकलभौ ककुभो निभश्च ॥ ५४ ॥
वसन्ततिलका
genderपुंक्लीm. n.
क्रोडो वराहो दंष्ट्री च घृष्टिः पोत्री च शूकरः ।उष्ट्रो मयः शृंखलिकः कलभः शीघ्रगामुकः ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
विंशत्यब्दगजो विक्कः कलभस्त्रिंशदब्दकः ।प्रभिन्नो गर्जितो मत्तो यूथनाथोऽथ यूथपः ॥ १३७ ॥
अनुष्टुप्
genderपुंmasc.
आवापचापसूर्पाणि दीपस्तूपोडुपाः शफः ।कुतपोऽथ डिम्बबिम्बकलभाः ककुभो निभः ॥ १४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)
genderपुंक्लीm. n.
पञ्चवर्षगजो बालः पोतस्तु दशवर्षकः ।त्रिंशद्वर्षस्तु कलभश्चतुर्दश इभेरमः ॥ २८४ ॥
अनुष्टुप्
genderपुंmasc.
गण्डाः कटः मदो दानं कलभः करिशावकः ।पोत्री कोलो घृणीर्द्दंष्ट्री वराहो भूमिदारकः ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
पिक्को विक्कश्च मातङ्गो विंशतिवर्ष उच्यते ।कलभोऽपि त्रिंशद्वर्षः कथ्यते कोविदैः किल ॥ २२०६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable); pāda 3, syllable 5 त्रिं (wrong syllable)
genderपुंmasc.
यावत् पञ्चाब्दमेतस्मिन् करभः कलभोऽपि च ।विक्कदिक्कौ तथा स्त्री तु करभी कलभीत्यपि ॥
अनुष्टुप्
genderपुंmasc.
कलभः कडभश्च द्वौ उद्वान्तोपात्तकौ समौ ।निर्मदे राजबाह्ये त्वौपवाह्यश्चोपवाह्यवत् ॥ २९२ ॥
अनुष्टुप्
genderपुंmasc.
दशवर्षस्तु पोतः स्याद्विक्को विंशतिवर्षकः ।त्रिंशद्वर्षस्तु कलभः शुण्डारः षष्टिहायनः ॥ ७१७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चवर्षो गजो बालः पोतस्तु दशवर्षकः ।त्रिंशद्वर्षस्तु कलभो विक्को विंशतिवर्षकः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
कलभ as a meaning in nānārtha verses
- कोषकल्पतरु कारुजकलभे चाम्पेय[268b]तरौ वल्मीके कारुजः कथितः । कीरेऽपि बाहुजः स्यात् स्वयंप्रभूते तिले तद्वत् ॥ ३४ ॥ Koṣakalpataru 6.7.34
- नानार्थार्णवसंक्षेप कारुजनाकौ च कलभे चापि जानीयात् पण्डितो जनः । किरणस्त्वश्वरश्मौ च रश्मौ च कथितो बुधैः ॥ ७२ ॥ Nānārthārṇavasaṃkṣepa 3.2.72
- वैजयन्ती कारुजकलमोंऽकुरलेखन्योः कठाकुः खगशिल्पिनोः । कारुजः कलभे नाके क्षवथुः क्षुतकासयोः ॥ १८ ॥ Vaijayantī 7.1.18