कार्षापण
kārṣāpaṇaपुं · masc.In 11 kośas: 12 synonym verses, 2 as a nānārtha head word, 7 as a meaning of another word.
genderपुंmasc.
स एव शाकटो भारः शतमानं तु पुंसि वा ।दशभिर्द्धरणैस्तुल्यमथ कार्षापणः पुनः ॥ ५२५ ॥
अनुष्टुप्
genderपुंmasc.
कार्षापणपक्वणयोर्वारवाणापराह्णयोः ।वाणस्य कङ्कणद्रोणसुवर्णानां तृणस्य च ॥ १५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ण (wrong syllable)
genderपुंक्लीm. n.
कलम्बश्च कडम्बश्च द्वयोः स्याच्छाकनाडिका ।कार्षापणोऽस्त्री शाकादि बद्धमुष्टिर्मतो बुधैः ।राजालुर्मूलकोऽस्त्री * हस्तिको हस्तिदन्तकः ॥ ४५ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
आक्रीड-कोदण्ड-तरण्ड-मण्ड-प्रकाण्ड-काण्डानि पलाण्डु-मुण्डौ ।दृढोऽथ बाणोऽप्यणु-वारवाण-कार्षापण-स्वर्ण-सुवर्ण-चूर्णाः ॥ ४४ ॥
उपजातिः
genderपुंक्लीm. n.
खण्डवारुण्डकाण्डानि मण्डषण्डाण्डदण्डकाः ।आक्रीडवारबाणौ च बाणकार्षांपणव्रणाः ॥ १३७ ॥
अनुष्टुप्
genderपुंक्लीm. n.doubtful
कार्षापणः कार्षिकश्च पणश्चाचित इत्यपि ।चतुःप्रस्थपरीमाणे त्वाढको द्रोण इष्यते ॥ ५३० ॥
अनुष्टुप्
genderपुंmasc.
विंशतिगण्डकामूल्यताम्रिके कार्षिके पणः ।कार्षापणः पुराणोऽस्त्री कार्षिकास्ते तु षोडशः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
genderपुंक्लीm. n.
कार्षापणः कार्षिकः स्यात्ताम्रिके कार्षिके पणः ।व्रीहिभिस्त्रिसहस्त्रैर्ना कुडुबस्तच्छतोत्तरैः ॥ १४९९ ॥
अनुष्टुप्
genderपुंmasc.
कुलिशध्वजकार्षापणपिनाकमुस्तान्धकारशृङ्गवलयाः ।पटलप्रवालचषकोपवासकासारकटकसन्तानाः ॥ ११ ॥
गीतिःmetre not read in every line
genderपुंक्लीm. n.
कार्षापणः कार्षिकः स्यात् स षोडशपणः क्वचित् ।लोहे विंशतिमाषोऽसौ कार्षिके ताम्रिके पणः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
ताम्रकर्षकृता मुद्रा क्वचित्कार्षापणः पणः ।स एव चाधिकेत्युक्तो धानका तच्चतुष्टयम् ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
आभोगके स्याद्विषयेऽथ कार्षा-पणो विकर्षापणवत्स्त्रियां न ।स्यात्कार्षिके षोडशके पणानांपारीरणः स्यात्कमठे च दण्डे ॥ ५७ ॥
उपजातिः
doubtful
कार्षापण as a meaning in nānārtha verses
- धरणिकोश पणपणो माने वराटानां मूल्ये कार्षापणे धने । द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ भृतौ गृहे ॥ Dharaṇikośa 14.3.2
- कोषकल्पतरु पणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
- नानार्थार्णवसंक्षेप माषकार्षापणप्रभेदेऽथ पुंस्येव मषणे विदुः । मषणं हिंसनं विंद्यात् सर्वलोकतते पुनः ॥ ९९४ ॥ Nānārthārṇavasaṃkṣepa 2.5.994
- परमानन्दीयनाममाला पणपणो ग्लहे भृतौ कार्षापणे मूल्ये वराटके । पाको दैत्ये शिशौ पाके पात्रं भाजनदेहयोः ॥ २८८ ॥ Paramānandīyanāmamālā 5.19.288
- शब्दरत्नावली पणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
- शब्दरत्नावली पुराणपुराणस्तु पणे पुंसि त्रिषु स्याच्च पुरातने । अस्त्री कार्षापणे क्लीबलिङ्गन्तु पञ्चलक्षणे ॥ Śabdaratnāvalī 7.15.50
- त्रिकाण्डशेष पुराणग्रन्थे कार्षापणे चास्त्री पुराणमनवे त्रिषु । पाणिः पादे व्यूहपृष्ठे वाणी व्यूतिश्च भारती ॥ १३४ ॥ Trikāṇḍaśeṣa 3.3.134