कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

घान्ताः · घार्धश्लोकः

॥ घार्धश्लोकः ॥

ओघो वृन्दे पयोवेगे वाद्यभेदः परम्परा ।अङ्घ्रिः स्याज्जन्तुचरणे मूले चापि महीरुहाम् ॥
4.2.1 · p. 27
अनुष्टुप्
अघमंहसि दुःखे च व्यसनेऽप्यघमुच्यते ।लघुः शोभननिःसारशीघ्रपृक्का[गुरुष्वपि ?] ॥
4.2.2 · p. 27
अनुष्टुप्
निदाघः कथितो ग्रीष्मे उष्णस्वेदाम्भसोरपि ।परिघो रवीन्दुयोगे स्याद्घाते शस्त्राकुले त्रिषु ॥
4.2.3 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अमोघ सफलं ज्ञेयममोघा पाटला तरुः ।सर्वौघो गुरुवेगार्थः सर्वसन्नहनार्थकः ॥
4.2.4 · p. 28
अनुष्टुप्