All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
टान्ताः · टपादः
व्युष्टिः फले समृद्धौ च क्लिष्टिः स्यात्क्लेशसेवयोः ।सृष्टिः स्वभावे निर्माणे दृष्टिर्धीदर्शनाक्षिषु ॥
10.1.1 · p. 35
अनुष्टुप्
पुष्टिः स्यात्पोषणे वृद्धौ दिष्टिरानन्दमानयोः ।मुष्टिर्बद्धकरे माने रिष्टिः समृद्धिखड्गयोः ॥
10.1.2 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
म्लिष्टं म्लानेऽस्पष्टवचे रिष्टं स्यादशुभं शुभम् ।दिष्टं दैवे च काले च कष्टं गहनकृच्छ्रयोः ॥
10.1.3 · p. 35
अनुष्टुप्
व्युष्टं फले प्रभाते स्यात्क्रुष्टं रोदनरावयोः ।लाटो जनपदे वस्त्रे फटा च फणदन्तयोः ॥
10.1.4 · p. 36
अनुष्टुप्
स्फुटो व्यक्ते प्रफुल्ले च कुटः स्याद्धटवेश्मनोः ।भटो जनान्तरे वीरे पिटः पेटे च वागुलौ ॥
10.1.5 · p. 36
अनुष्टुप्