All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
शान्ताः · शपादः
॥ इति वान्तवर्गः ॥
॥ शपादः ॥
ईशः प्रभौ च शम्भौ च राशिर्मेषादिपुञ्जयोः ।अंशुर्लेशे च रश्मौ स्यादाशा तृष्णादिशोः स्मृता ॥
29.1.1 · p. 211
अनुष्टुप्
स्पशौ प्रणिधिसंग्रामावाशू च व्रीहिसत्वरौ ।निस्त्रिंशौ क्रूरखड्गौ तु बालिशो मूर्खशावकौ ॥
29.1.2 · p. 211
अनुष्टुप्
संकाशौ निभतुल्ये यौ ? विकाशो विजने स्फुटे ।निवेशौ शिबिरोद्वाहौ निदेशः शिष्टभाषणे ॥
29.1.3 · p. 211
अनुष्टुप्