कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निकर

nikaraपुं · masc.

In 14 kośas: 12 synonym verses, 3 as a nānārtha head word, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1412 · p. 53
संघाते प्रकरौघवारनिकरव्यूहाः समूहश्चयःसंदोहः समुदायराशिविसरव्राताः कलापो व्रजः ।कूटं मण्डलचक्रवालपटलस्तोमा गणः पेटकंवृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः ॥ १४११ ॥समवायो निकुरम्बं जालं निवहसंचयौ ।जातं तिरश्चां तद्यूथं संघसार्थौ तु देहिनाम् ॥ १४१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.40
समूहे निवहव्यूहसंदोहविसरव्रजाः ।स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः ॥ ३९ ॥समुदायः समुदयः समवायश्चयो गणः ।स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.686 · p. 79
निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।चयसमवायवृन्दसन्दोहसमाजवितानसंहति-प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
metre not recognised
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.200 · p. 339
समूहविसरव्यूहसन्दोहनिवहप्रजाः ।स्तोमौघवारसंघातनिकरव्रातसंचयाः ॥ २०० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.303 · p. 90
समूहः प्रकरः संघो निकरौघव्रजा अपि ।संघातो मण्डलं चक्रवालं वृन्दकदम्बके ॥ ३०३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.71 · p. 34
समुदाये समुदयो व्यूहो वाह(र?)श्चयो गणः ।समवायश्च पटलं निकरश्चक्रवालकम् ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.382 · p. 27
संडीनोड्डानकोड्डीना उड्डियानं खगेरिताम् ।स्तोकसङ्घातनिकरव्रातव्यूहसमूहकाः ॥ ३८२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.85 · p. 43
ओघः संघो व्रजो व्रातो निकरः प्रकरश्चयः ।संदोहः संहतिः स्तोमो वारः समुदयो गणः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2563 · p. 414
आकर उत्करः कूटं कलापश्च कदम्बकम् ।निकरो निकुरम्बञ्च प्रकरः पेटकं गणः ॥ २५६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.105 · p. 89
वारौघनिकरोत्कारसमुदायसमुच्चयाः ।आकरः प्रकरः संघो निचयः प्रचयश्चयः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.827 · p. 104
निकरव्यूहसमूहव्रातनिकायौघविसरसंदोहाः ।झाटचयवारसंचयनिचयगणप्रकरपेटकप्रचयाः ॥ ८२७ ॥
गीतिः
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.2 · p. 186
सन्दोहनिवहव्यूहसमूहनिकराकराः ।समुदायः समुदयो निकुरुंबं कदम्बकम् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.25 · p. 169
निकरो निवहे सारे कपर्दानां विनिचये ।सुषिरं विवरे वाद्ये संबन्धे सुषिरा नदी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.97 · p. 316
यादोविशेषे मकरो निधौ चराशिप्रभेदे निकरस्तु सारे ।सङ्घे तथा न्यायगते च वित्तेऽथो शीकरः स्त्री न कणे जलस्य ॥ ९७ ॥
इन्द्रवज्रा
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.80 · p. 271
दासेरो दास्यपत्ये स्याद्ग्रामजाले नपुंसकम् ।धूसरो ना खरे स्त्री तु किन्नर्यां पाण्डरे त्रिषु ।निकरो निवहे न्याये धने सारे निधावपि ॥
अनुष्टुप्

निकर as a meaning in nānārtha verses

  • धरणिकोश आकरअध्वरः सावधाने स्याद्वसुभेदे क्रतौ स्मृतः । आकरौ श्रेष्ठनिकरावुत्पत्तिस्थानमाकरः ॥ Dharaṇikośa 26.2.41
  • कोषकल्पतरु चयप्राकारमूले निकरे चयः स्यात् समाहृतौ चाथ नयश्च नीतौ । द्यूतप्रभेदे जनके शयस्तु निद्राहिशय्याकरवाचकश्च ॥ ३ ॥ Koṣakalpataru 6.26.3
  • कोषकल्पतरु कायधवे मनोज्ञे त्रिषु वृद्धिवल्ल्यां स्त्रियां स्वभावे तु तनौ च कायः । संघे च लक्ष्ये परवत्कदैवे क्लीबे नृतीर्थेऽप्यथ सायमस्त्री । प्रियो धवे सुन्दरवाचकश्च वृद्ध्यौषधौ मानवतीर्थके तु । देहे च शङ्खे निकरे च कायो लक्ष्येऽपि सायं तु दिनान्तवाचि ॥ ६ ॥ Koṣakalpataru 6.26.6
  • कोषकल्पतरु चक्रचक्रस्तु कोके निकरे तु न स्त्री रथाङ्गसैन्येष्वपि राष्ट्रके च । स्याद्ग्रामजालेऽपि कुलालभाण्डे दम्भान्तरेऽस्त्रे सलिलभ्रमे च ॥ ३९ ॥ Koṣakalpataru 6.27.39
  • कोषकल्पतरु अग्रक्रूरेऽन्यवत्स्यात्कुटिलेऽप्यथाग्र- मालम्बने स्यान्निकरेऽधिके च । प्रान्ते पुरस्तादुपरि प्रधाने- ऽप्याद्ये तथा[48a]र्द्धे च पलप्रमाणे ॥ ४३ ॥ Koṣakalpataru 6.27.43
  • कोषकल्पतरु पाशलोध्रे तथा गन्धरसेऽथ दर्शः सूर्येन्दुसङ्गेऽप्यवलोकनेऽपि । श्रौते च पक्षान्त विधौ तथाथ स्पर्शो भवेत्स्पर्शनदानयोश्च । त्वाचे गुणेऽर्तौ च नृवैश्ययोस्तु नास्त्री प्रवेशे विडिह प्रजायाम् । मले न ना स्त्री तु खगादिबन्धे कचोत्तरस्थो निकरे च पाशः । कर्णान्तगः शोभनवाचकः स्या- न्निन्दार्थकश्चात्र परस्थितोऽयम् । नाशो विनाशानुपलम्भयोः स्यात् पलायनेऽथ क्षवथौ पुमान्स्यात् ॥ ६ ॥ Koṣakalpataru 6.30.6
  • परमानन्दीयनाममाला आकरआरोहोऽथ गजारोह उच्छूये दैर्घ्यमानयोः । स्त्रीकट्यामाकरो रत्ने खान्यां च निकरे तथा ॥ ३४ ॥ Paramānandīyanāmamālā 5.1.34
  • वैजयन्ती आकररुग्भीतितापेष्वातङ्क आशुगोऽर्के शरेऽनिले । तदात्वे पात आपात आकरो निकरे खनौ ॥ ९ ॥ Vaijayantī 7.1.9