कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः

इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां सङ्कीर्णवर्गप्रकाशः ॥

तत्वा ज्योतिः परं ब्रह्म मुछाखाननृपाज्ञया ।नानार्थशब्दा लिख्यन्ते मथुरेशेन यत्नतः ॥
7.1 · p. 177
अनुष्टुप्
द्वित्रिचतुःपञ्चषट्कवर्णकान्तादिचिह्निताः ।स्वरान्ता व्यञ्जनान्ता वा नानार्थाः स्युरिहोदिताः ॥
7.2 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 च (wrong syllable)
एकवर्णोऽपि नानार्थः क्रमादादौ निबध्यते ।नानार्थः प्रथमान्तः स्यात् सप्तम्यन्ते तु वर्तते ॥
7.3 · p. 177
अनुष्टुप्