कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

Part 1

श्रीराघवविरचिता

नानार्थमञ्जरी

समस्तविद्यावेत्तारं सुमुखं श्रीविनायकम् ।अज्ञानतिमिरादित्यं विघ्नघ्नं नौमि सन्ततम् ॥विश्वादीनि समाहृत्य बालानां ज्ञानसिद्धये ।कविना राघवेणाद्य कृता नानार्थमञ्जरी ॥विश्वप्रकाशो गोपालः शेषकारो धनंजयः ।शब्दार्णवो वैजयन्ती सूर्यो रुद्रश्च यादवः ॥प्रतापो भागुरिर्दण्डी रभसश्च हलायुधः ।सुभूतिर्हरिविष्णू च वररुच्यमरोत्पलाः ॥अजयः शाश्वतश्चैते उच्यन्ते पण्डितैः पुरा ।
1 · p. 1
अनुष्टुप्