All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
डान्तवर्गः · द्व्यक्षरडान्ताः
इत्येकाक्षरडान्ताः ।
दण्डोऽस्त्री लगुडे मानभेदे सैन्ये दमे यमे ।मन्थानोपाययो राज्ञां शासने मद्यकोणयोः ॥धनप्रकाण्डहिंसासु चण्डांशोः पारिपार्श्वके ।अश्वे स विंशतिशताङ्गुलौ यष्ट्यां प्रकीर्तितः ॥पिण्डो देहे जपापुष्पे निवासे सिल्हकेऽपि च ।काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु ॥अश्वे मन्द्रे न पुं नाले तरुस्कन्धे रहस्यपि ।इभस्तम्बेऽपि च स्त्री वा तु स्यात्पिप्पलिचव्ययोः ॥भाण्डमस्त्री नदीपात्रे भाजने चामरेऽपि च ।स्यादश्वाभरणे मूलवणिग्द्रव्ये च मन्त्रके ॥चण्डा धनहरीशङ्खपुष्प्योः पुंस्यतिकोपने ।चण्डी कात्यायनीहिंस्रकोपनस्त्रीषु सम्मता ॥क्रीडा केलिप्रकारे स्यात्खेलावज्ञानयोरपि ।गुडः स्याद्गोलके हस्तिसंनाहेक्षुविकारयोः ॥व्याळः(डः) सर्पे पशौ मांसे भूगोवाक्षु त्विडा इळा ।बुधपत्न्यां यज्ञपात्रे क्ष्वेडा वंशशलाकयोः ॥दन्तोष्ठवाद्ये शब्देऽस्त्री पुंसि कर्णमले विषे ।नाडी काले षट्क्षणे स्यात्सिरायां मरुदादिषु ॥
14.2.1 · p. 26
अनुष्टुप्