कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

मान्तवर्गः · द्व्यक्षरमान्ताः

इत्येकाक्षरमान्ताः ।

दमस्तु दमथे दण्डे कर्दमे दमनेऽपि च ।क्रमः शक्तौ परीपाट्यां रीत्यां चलनकम्पयोः ॥ग्रन्थे च पादक्षेपे च पर्याये च पराक्रमे ।क्षेमं स्यान्मङ्गले लब्धे क्षेमः कुशलचोरयोः ॥क्षेमा द(ध)नहरीगौर्योः क्षमः पुंसि क्षमान्विते ।क्षमा धरित्रीक्षान्त्योः स्त्री युक्ते शक्ते हिते सहे ॥युक्तादौ वाच्यलिङ्गः स्यात्कामः काम्ये मनोभवे ।इच्छायां रेतसि क्लीबे निकामे व्यसनेऽव्ययम् ॥रागाभ्यनुज्ञयोश्चापि त्रिषु श्यामस्तु मेचके ।हरित्प्रयागान्यग्रोधघटवृद्धेषु दारके ॥मारे शुके पिके कृष्णे मरीचे लवणे नपुम् ।अप्रसूताङ्गनायां स्त्री सोमवल्ल्यां महौषधौ ॥कृष्णाप्रियङ्ग्वोर्गुन्द्रायां निशाशारिबयोरपि ।नील्यां शोभात्रिवृतयोस्तृणभेदेऽपि कथ्यते ॥भामः क्रोधे रवौ दीप्तौ नरकग्रहभेदयोः ।धर्मः पुण्ये यमे न्याये स्वभावाचारयोः कृतौ ॥उपमायामहिंसायां भावे चापे च यज्वनि ।स्वरेषूपनिषद्राज्ञोर्वामं सव्येऽतिसुन्दरे ॥प्रतीपे द्रविणे पुंसि वामस्थे रम्यचक्रयोः ।गर्हिते योषिति हरे वामी तु बडबासृजोः ॥रासभीकरभीभृङ्गेष्वथ सोमो धनाधिपे ।दिव्यौषधौ श्यामलताचन्द्रयोर्वासरे जले ॥वसुभेदे च कर्पूरे समे स्त्री योषितीति च (?) ।स्यात्पद्मा लाञ्छनेऽभिख्याविध्योर्लोकेश्वरार्कयोः ॥धनदे च सरस्वत्यां तारालक्ष्म्योश्च वाच्यवत् ।पद्मं स्यात्पद्मकव्यूहे निधौ संख्यान्तरेऽम्बुजे ॥ऊर्मिस्तरङ्गे पीडायां वेगे भङ्गप्रकाशयोः ।उत्कण्ठवस्त्रसंकोचरेखेषु परिचक्ष्यते ॥लक्ष्मीः संपत्कान्तिरमारूपभेदप्रियङ्गुषु ।रामो मनोज्ञे शरभे जामदग्नौ (ग्न्ये?) बले सिते ॥त्रिषु नीले राघवे च परशौ रमणेऽपि च ।क्लीबे तु वास्तौ कुष्ठे स्त्री स्याद्रमायां च योषिति ॥शुष्मा तेजोर्कयोः पुंसि शुष्मं क्षीरे नभस्यपि ।पद्मके बिन्दुजाले च पद्मा भार्ङ्गीश्रियोरपि ॥भ्रमोऽम्बुनिर्गभे भ्रान्तौ कान्ताख्ये शिल्पयन्त्रके ।भीमो भये भीमसेने सूक्ष्ममध्यात्मदभ्रयोः ॥श्रमोऽभ्यास उपाये च सूर्मिः स्यात्सालभञ्जिके ।यमः कृतान्ते यमने युग्मजाते हिते त्रिषु ॥आनृशंस्यक्षमासत्याहिंसार्जवदमेषु च ।ज्ञानप्रसादमाधुर्यमार्दवे पुंनपुसकम् ॥आमोऽपक्वे रोगभेदे समस्तक्राटकार्धयोः(?) ।यामो दिनस्याष्टमांशे ध्वाङ्क्षे संयमनेऽपि च ॥घर्मः स्यादातपे ग्रीष्मे प्रवर्ग्ये देवतान्तरे ।किरणे प्रग्रहे रश्मिर्ग्रामः शब्दादिवृन्दयोः ॥षड्जादौ स्यात्संवसथे चाथ सेनामुखे रुजि ।स्तम्बेऽपि गहने गुल्म ऊष्म स्वेदाम्भसोरपि ॥धाम कान्त्यामथालस्ये जामी स्वसृकुलस्त्रियोः ।जिह्मस्तु कुटिले मन्दे रसनायां तु तत्स्रियाम् ॥न पुंसि कपटे वक्रे सिंहः श्रेष्ठमृगेन्द्रयोः ।अमा सह समीपे च सामि त्वर्धे जुगुप्सने ॥नाम प्रकाश्यसंभाव्यक्रोधोपगमकुत्सने ।
26.2.1 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 पु (wrong syllable)