All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
कान्तवर्गः · द्व्यक्षरकान्ताः
इत्येकाक्षरकान्ताः ।
अर्कोऽर्कपर्णे स्फटिके ताम्रे सूर्ये दिवस्पतौ ।ज्येष्ठभ्रातरि शुक्लेऽर्कपादपे च पुमान्भवेत् ॥मर्कस्तु काङ्क्षोहाकर्मभेदे पुष्करवायुषु ।कर्की कर्कटके राशौ स्त्रियां कर्कस्तु मल्लके ॥घटभेदाग्निमुकुरसिताश्वकृपणेष्वपि ।कङ्कस्तरङ्गे गुप्ते च गृध्रे काके युधिष्ठिरे ॥कूले मधुरिपौ कोके पिके वैवस्वतेऽप्यथ ।मुनिवल्मीकयोः शैले नाकुः स्यात्पुंसि कथ्यते ॥त्रिलिङ्गे काकुशब्दस्तु ध्वनिवैरूप्यसंभवे ।गायकानां कण्ठदोषे कच्चिदर्थेऽव्ययं पुनः ॥अङ्कः स्थानान्तिकक्रोडभूषणोत्सङ्गलक्ष्मसु ।मन्तौ नाटकविच्छेदे चित्रयुद्धे च रूपके ॥टङ्कोऽस्त्री टङ्कणे गुल्फे काणान्तरखनित्रयोः ।कोशेऽश्मदारणेऽपि स्याज्जङ्घायां मासि कथ्यते ॥न्यङ्कुर्गुरुकुलस्थायिशिष्ये नेममुनौ मृगे ।शङ्कुः पर्णसिराजाले यादोभेदसुसंख्ययोः ॥स्थाणौ शक्तित्रये कीले मेहने च पुमानयम् ।शङ्कातिरेकयो रेकः पाको जरसुनिष्ठयोः(?) ॥अर्भके पचनेऽपि स्याल्लोकस्तु भुवने जने ।श्लोको यशसि पद्ये च शोकः शृङ्गानुक्रोशयोः ॥दुःखे पादरसेऽपि स्यान्नाकः स्वर्गान्तरिक्षयोः ।चक्रवाके वृके कोकः शक्रो गोमयदेशयोः ॥किकी चाषे द्रव्यभेदे स्त्रियां केका शिखिस्वने ।मुष्कोऽण्डकोशे मोक्षे द्रौ रोको रश्मौ बिलेऽपि च ॥शङ्का वितर्कभययोरस्पर्शनविनाशयोः ।लङ्का रक्षःपुरीशाखाशाकिनीकुलटासु च ॥ढक्का कुल्याशीघ्रवाद्यामृगाङ्काङ्गेषु गौरवे ।अकोऽद्रौ दुरिते क्लेशे ओकोऽस्त्री मन्दिरेऽऽश्रमे(ये) ॥शल्कोऽस्त्री शमले पापे डम्भे च शकलेऽपि च ।निष्को निर्गमदीनारस्वर्णोरोभूषणेषु च ॥साष्टे शते सुवर्णानां गाङ्गेयेऽपि पुमान्पले ।वल्कं तु वल्कलेऽपि स्याच्छौकं गतिशुकौघयोः ॥भेकस्तु कातरे भेको मण्डूकेऽपि च कथ्यते ।चन्द्रे भूम्यां त्रिकः पुंसि त्रये पृष्ठाधरे त्रिकम् ॥पुष्पभेदे बको रक्षःपक्षियक्षानलेषु च ।कीरे दुःशासनापत्ये शोणके व्यासनन्दने ॥शुकः शुकं तु शैरीषकुसुमग्रन्थिपर्णयोः ।त्रिष्वल्पे चातके पुंसि स्तोको राकस्तु पूषणि ॥राका नवरजाकान्त्योः पूर्णचन्द्रतिथावपि ।शाकः पक्तौ वृक्षभेदे भूपद्वीपविशेषयोः ॥काका तु स्त्री हरीतक्यां पङ्कोऽस्त्री कर्दमैनसोः ।किष्कुर्हस्ते वितस्तौ च प्रकोष्ठे कुत्सितेऽपि च ॥नल्वेऽथ पापे कल्कोऽस्त्री गुल्मे विट्किट्ट(?)दम्भयोः ।छेकोऽभिज्ञप्रासगृहासक्तपक्षिमृगेषु च ॥अवाचि वानरे मूक एके मुख्यान्यकेवलाः ।शुल्कं घट्टादिदेये स्याज्जामातुर्बन्धकेऽपि च ॥
2.2.1 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नु (wrong syllable)