All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
पान्तवर्गः · त्र्यक्षरपान्ताः
इति द्व्यक्षरपान्ताः ।
कलापो भूषणे बर्हे तूणीरे संहतावपि ।आच्छादनेऽन्ने कशिपुरावापः परिचिन्तने ॥वृक्षस्कन्धोर्ध्वशाखायां तृणगुच्छे द्रुविस्तृतौ ।पल्लवे विटमुख्ये च विटपः पुंनपुंसकम् ॥सुकृपा मञ्जुबुधयोर्यद्यपीत्यवधारणे ।कच्छपी कूर्मयोषायां वीणाभेदेऽपि च स्त्रियाम् ॥
22.3.1 · p. 54
अनुष्टुप्