All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
छान्तवर्गः · द्व्यक्षरछान्ताः
इत्येकाक्षरछान्ताः ।
गुच्छस्तु स्तबके स्तम्बे हारभेदकलापयोः ।कच्छस्तटेऽम्बरप्रान्ते प्रस्थेऽनूपस्थलेऽपि च ॥गुह्ये पार्श्वे नपुंसि स्याद्बृहन्मत्स्ये च कूर्चके ।स्कन्धे कूर्मेऽप्यथो मूर्छा मोहव्यापारयोः स्त्रियाम् ॥तदेव वल्लकीनादे त्रिष्वच्छो निर्मले तु ना ।भल्लूकेऽप्यव्ययं(?) स्वच्छः स्याच्छुद्धजलमेघयोः ॥पुच्छः शून्येऽवसाने च पश्चाद्भागेऽपि वालधौ ।तुच्छं तु दुःखे क्षुद्रे च शून्ये स्याद्गर्हिते त्रिषु ॥पिच्छा शाल्मलिनिर्यासेऽप्यन्धे(?)श्वचरणामये ।पिच्छं खड्गच्छदे बर्हे उञ्छस्तु स्यात्परिग्रहे ॥
8.2.1 · p. 19
अनुष्टुप्