कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

धान्तवर्गः · द्व्यक्षरधान्ताः

इत्येकाक्षरधान्ताः ।

सिद्धं नित्ये प्रसिद्धे च निष्पन्नापन्नदीप्तिषु ।गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः ॥मृत्यौ च सरभेऽपि स्यात्संधिः सङ्गसुरङ्गयोः ।भेदे संघट्टने मोक्षे लाभे नाट्याङ्गहर्षयोः ॥धेनौ रन्ध्रे च सिद्धिस्तु योगभेदसुरेड्ययोः ।सुधा पयसि पीयूषे मूर्वायां स्नुहिलेपयोः ॥गङ्गायामिष्टकायां च साधुः सज्जनयोग्ययोः ।पात्रे पूज्ये पाचके चामात्ये पूजाविधावपि ॥प्रागल्भ्ये चाव्ययं क्लीबं चारौ वार्धुषिकेऽपि च ।सिन्धुर्नद्यां नदे स्त्री स्याद्देशभेदेऽम्बुधौ गजे ॥मोक्षे समाप्तौ लाभे च पुंसि निष्पत्तियोगयोः ।मधु मद्ये पुष्परसे वैशाखे माक्षिके गुडे ॥क्षीरे जले दैत्यभेदे मदवृक्षविशेषयोः ।वसन्ते जातिमधुरे जपाकोशे द्वयोरपि ॥विधुर्विष्णौ चन्द्रमसि कर्पूरे राक्षसेऽपि च ।विधिर्विधाने नियतौ दैवे काले विधातरि ॥कल्पे नेमौ प्रवृद्धौ स्यात्पश्चाद्भागनितम्बयोः ।वृद्धिरानन्दने वृद्धौ वर्धनेऽपि कलान्तरे ॥वधूर्जायास्नुषास्त्रीषु प्रियङ्गौ शटिनामनि ।स्पृक्कायां च नवोढायां बन्धुर्बन्धूकपुष्पके ॥वल्लभेष्टे भ्रातरि च पुंसि तत्परिकीर्तितः ।स्निग्धस्तु त्रिषु सान्द्रे च क्लीबे मसृणतेजसोः ॥इद्धं स्याद्वर्धने कान्तौ मुग्धः सुन्दरमूढयोः ।सौम्ये नवेऽबलाभेदे चार्धं खण्डे समांशके ॥बुद्धस्तु सुगते वृद्धः पण्डिते च वयोधिके ।स्कन्धः समुदये वृक्षे सैन्ये रूपादिपञ्चके ॥समीहने शीर्षभुजप्रकाण्डगमनेष्वपि ।विधावृद्धिप्रकारेषु गजान्ने वर्तने विधा ॥संधा प्रतिज्ञामर्यादासंधानेष्वपि च स्त्रियाम् ।स्पृहायां प्रत्यये श्रद्धा स्यादन्धस्तिमिरान्नयोः ॥चक्षुर्हीनेऽप्यलिङ्गः स्यान्मिथोऽन्योन्ये रहस्यपि ।वृधा निरर्थकाविध्यो (ग्रन्थि?) पर्वण्यनार्जवे ॥
20.2.1 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 भ्रा (wrong syllable)