कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

ळान्तवर्गः · द्व्यक्षरळान्ताः

इति चतुरक्षरहान्ताः ।

एकाक्षरळान्तमप्रसिद्धम् ।

पाळिरश्रौ प्रदेशेऽङ्के रेखायां स्यात्त्सरुच्छदे ।नळस्तु तृणभेदेऽब्दे कपीन्द्रे भूपतावपि ॥काळिश्चामरदण्डे च जरादिश्लथचर्मणि ।वळिर्मध्यमरेखोर्मिजीर्णत्वग्गृहदारुषु ॥निम्नोन्नते च वक्रे च रचनायामपीष्यते ।मौळिः किरीटे धमिल्ले जटायामथ पन्नगे ॥दुष्टदन्तावळे व्याळ अळिः पङ्क्तौ च वृश्चिके ।भृङ्गे वयस्यां भूमौ स्यात्केळिस्तु परिहासके ॥
35.1.1 · p. 92
अनुष्टुप्