कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

नान्तवर्गः · त्र्यक्षरनान्ताः

इति द्व्यक्षरनान्ताः ।

भुवनं विष्टपे लोके सलिलेऽपि वियत्यपि ।शयनं सुरते निद्राशय्ययोरपि बोधितम् ॥मदनः सिक्थके मारे दुर्धूरे शक्रपादपे ।वसन्तशत्रुमूल्येषु कठिनो दुर्जने दृढे ॥जीवनं जीविते तोये संदानं दामदानयोः ।लोचनं स्यान्मुकुलिते सुखिते शूषणे दृशि । {0985}यत्ने निरूपणेऽपि स्यान्मननं त्ववबोधने ।कर्तनं छेदने प्राह नारीणां तूलसेवने ॥शकुनिः पक्षिभेदे च नरभेदेऽपि चेष्यते ।अवनं खण्डने त्राणे गतौ तृप्तौ च याचने ॥श्रवणे च क्रियायां च अवाप्तिप्रीतिदीप्तिषु ।तलिनं विरले स्तोके स्वच्छे तुच्छेऽपि वाच्यवत् ॥तलुनः पावने यूनि स्त्रियां तु तलुनीं विदुः ।अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः ॥मातुरेकसुते वृक्षे धवले नयनामये ।तृणभेदे गवि स्त्री स्यान्नयनं लोचने गतौ ॥उमायां करतोये च कुट्टनायामपि स्त्रियाम् ।वितानो यज्ञविस्तारोल्लोचेषु क्रतुकर्मणि ॥वृत्तभेदेऽवसाने च त्रिषु स्यात्तुच्छमन्दयोः ।प्रधाने पटले चाथ मर्दनं तु विलोलने ॥मालिनी तु नदीभेदे छन्दोभेदेऽपि च स्त्रियाम् ।मालाकारस्त्रियां चापोनगर्यां गौरिगङ्गयोः ॥प्रधानं स्यान्महापात्रे प्रकृते परमात्मनि ।सदोत्तमे प्रतिज्ञायामेकत्वे धारणे रणे ॥मुख्ये मतौ मन्त्रिणि स्याद्गन्धनं सूचने द्युतौ ।उत्साहेऽपि च हिंसायां मन्थनं लोडनेऽपि च ॥शासनं राजदत्तोर्व्यां लेखाज्ञापत्रनीतिषु ।शिक्षके रक्षके मर्यादाबुद्ध्योश्चान्यलिङ्गकः ॥दर्शनं नयने स्वप्नबुद्धिधर्मोपलब्धिषु ।दर्शवर्मज्ञानशास्त्रदर्पणेष्वक्षिसंविदि ॥समये चाथ पिशुनं कुङ्कुमे सूचके खले ।घ्राणे च स्यात्कटीवस्त्रे स्पृक्कायां पिशुना मता ॥संतानः संततौ गोत्रे स्यादपत्ये सुरद्रुमे ।चालनी तु शतच्छिद्रे पुंश्चल्यामपि च स्त्रियाम् ॥नलिनी स्यात्सरोजिन्यां व्योम्नि सिन्धौ सरोवरे ।नालिकायामपि स्त्री स्यान्नलिनं कमले जले ॥पद्मिनी स्त्रीविशेषे च सरस्यामम्बुजे स्त्रियाम् ।निधनं सामभक्तौ च बहिर्मुष्टौ कुलक्षये ॥जघनं स्यात्कटेः पूर्वे श्रोणिभागापराधयोः ।विमानोऽस्त्री देवयाने सप्तभूमिकसद्मनि ॥प्रार्थना याचने नाम्नि चाथ मत्ताविदग्धयोः ।वाणिनी दूतिकायां च नर्तक्यां माननोऽस्त्रियाम् ॥स्तम्भने मानभेदे सम्माने मत्तनिकृन्तयोः ।सीमन्तिन्यां मदस्यन्द्यां मानना मानिनी समा ॥वन्दिनी क्षेपणे नग्ने क्षुद्रे प्रेते दिगन्तरे ।भूतात्मा धातरि तनौ शिखरी तरुशैलयोः ॥अपामार्गे हायनस्तु व्रीहिभेदेऽर्चिवर्षयोः ।वृजिनं कल्मषे क्लीबं क्लेशे ना कुटिले त्रिषु ॥वाहिनी तु स्त्रियां नद्यां सेनायां कीर्तियुक्तके ।रजनी नीलिकालाक्षाहरिद्रायामिनीषु च ॥ह्वादिनी वज्रतटितोः कामिनी योषिति स्त्रियाम् ।श्यामापारावतीचक्रवाकीवन्दासु चेष्यते ॥केतनं तु गृहे कृत्ये ध्वजे चोपनिमन्त्रणे ।व्यञ्जनं लाञ्छने श्मश्रुनिष्ठानावयवेष्वपि ॥कादिक्षान्तेऽथ राजानां द्यूतलोकापवादयोः ।कौलीनं स्यात्कुलीनत्वगुह्यजन्यकुकर्मसु ॥कौलेयकविहगाहिपशूनां संगरेऽपि च ।स्यादुद्यानं निःसरणे वनभेदे प्रयोजने ॥देवनं व्यवहारे च द्युतौ मोदे मदेऽपि च ।स्तुतौ च विजिगीषायां क्रीडास्वप्नगतिष्वपि ॥उत्थानं पौरुषै तन्त्रे संनिविष्टोद्गमे मुदि ।मलत्यागे समाप्तौ च व्युत्थानं वैरपूजयोः ॥समाधौ च निवृत्तौ च प्रतिरोधेऽथ मारणे ।साधनं मृतसंस्कारे गतौ द्रव्येऽर्थदापने ॥निर्वर्तनोपकरणानुव्रज्यासु च मेहने ।चिह्ने सैन्ये च करणे व्यसनं किल्बिषेऽशुभे ॥निष्परोद्यमने सक्तौ दोषे भ्रंशे विपद्यपि ।कामजे कोपजे चाथ मैथुनं संगतौ रतौ ॥मिथुनं राशिभेदे स्याद्युगं स्त्रीपुंसयोगयोः ।कौपीनं चीरखण्डे स्याद्गुह्ये कार्ये तदिष्यते ॥प्रसूनं पुष्पफलयोः प्रज्ञानं बुद्धिचिह्नयोः ।क्रन्दने रोदनाह्वाने संस्थानं तु चतुष्पथे ॥संनिवेशे च मृत्यौ स्यादाकृतौ केतनेऽपि च ।समानो वायुभेदे च समे चैके च सज्जने ॥तरस्वी वेगिनि शूरे वृद्धौ छेदे च वर्धनः ।आसनं तु गजस्कन्धे पीठेऽपि च नपुंसके ॥
21.3.1 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)