कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

हान्तवर्गः · त्र्यक्षरहान्ताः

इति द्व्यक्षरहान्ताः ।

विग्रहः कलहे देहे कोपे विस्तारभागयोः ।तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च ॥द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके ।वरस्त्रियां स्यादारोहो हलाहश्चित्रवर्णके ॥अहहेत्यद्भुते खेदे प्रवाहो जववेगयोः ।सहस्रबाहुर्बाणेऽर्के कृतवीर्यसुतेऽपि च ॥
34.3.1 · p. 92
अनुष्टुप्