कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

तान्तवर्गः · एकाक्षरतान्ताः

इति पञ्चाक्षरणान्ताः ।

इति राघवीयनानार्थमञ्जर्यां टवर्गान्तवर्गाः परिसमाप्ताः ।

तः पुंसि कोपे पुच्छे च संभोगे निश्चयेऽपि च ।धातुवादविधौ चोरे प्रकृतार्थे तु त्रिष्वयम् ॥करुणायां तु ता स्त्री स्याद्धातुवादे तदव्ययम् ।ते क्रीडने चाभिधेये तृट् पिपासेहयोः स्त्रियाम् ॥स्वित्प्रश्ने च वितर्के च तुः स्याद्भेदेऽवधारणे ।
17.1.1 · p. 32
metre not recognised