कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

रेफान्तवर्गः · द्व्यक्षररेफान्ताः

इत्येकाक्षररान्ताः ।

वारः समूहेऽवसरे सूर्यादिदिवसे क्रमे ।संभागे वरणे शीघ्रे हरे कूपकवृक्षके ॥मद्यपात्रे कुन्तले च द्वारे करिणि पुंस्ययम् ।आवृत्तौ क्ली वारिघट्टे जलवारणवृन्दयोः ॥गजबन्धिनि वारी स्यान्मारौ मन्मथशात्रवौ ।पत्रं तु वाहने पक्षे पर्णे स्याच्छरपक्षिणोः ॥पट्टे च तिलके पुंसि पात्रं भाजनयोग्ययोः ।नाटकादिप्रवेशेर्हावध्वा(?) स्त्री राजमन्त्रिणि ॥पर्णे स्रुवादौ विभवे न पुं तीरद्वयान्तरे ।वित्तनिक्षिप्तपात्रे स्याच्चित्रमालेख्य अद्भुते ॥मङ्गले तिलके हेम्नि व्योम्नि पद्मे नपुंसकम् ।स्त्री त्वाखुपर्णीगोदुग्धासुभद्रादन्तिकासु च ॥नक्षत्राप्सरसर्पेषु पुंसि स्याद्वह्निसंज्ञके ।कर्बुरे च रिपौ वृत्ते घने ध्वान्ते च दानवे ॥शैले चक्रे सुपर्णे च चारः स्यात्पिप्पलिद्रुमे ।गतौ सर्पे च मन्थाने प्रियालस्पर्श(श?)योरपि ॥नपुंस्युपाये रन्ध्रे च तारस्तरलशुद्धयोः ।मुक्ताहारे नेत्रमध्ये नक्षत्रे शुद्धमौक्तिके ॥गुरुसुग्रीवभार्यायां बुद्धयोषित्यपि स्त्रियाम् ।पाते च शेखरे स्वर्णे पलानामयुतद्वये ॥विविधे पुंनपुंसि स्यात्प्रणवे रजतेऽपि च ।उच्चस्वरेऽप्यनवचि मित्रः स्नेहितसूर्ययोः ॥शूरः पराक्रमे सूर्ये वीरः शूरे रतिप्रिये ।कविसामर्थ्ययोर्धीरश्चक्रं सैन्यरथाङ्गयोः ॥जलावर्ते च संसारे व्याजे यन्त्रान्तरेऽपि च ।छद्मन्यस्त्रान्तरे संघे चक्रवाके पुमानयम् ॥तैलिकीये कौम्भकारे ग्रामजाले च राष्ट्रके ।संग्रामे कुम्भकारस्य भाण्डे स्यात्साधनान्तरे ॥चक्री तु पद्मनाभे च कुलाले चक्रवर्तिनि ।परः स्यादुत्तमानाप्तवैरिदूरेषु केवले ॥पुंनपुंस्यव्ययेऽपि स्यात्परमात्मन्यनात्मनि ।पुरं तु नगरे गेहे देहे पुंसि तु गुग्गुलौ ॥पुराव्ययं पूर्वकाले पुरस्तात्पाटलीसुते ।प्रबन्धेऽपि चिरातीते निकटागामिकेऽपि च ॥बभ्रुर्विशाले नकुले कृशानौ यादवेऽपि च ।शूलिन्यब्जे पिङ्गले च यथावत्कथितो बुधैः ॥चन्द्रः शशाङ्के कर्पूरकम्पिल्लस्वर्णवारिषु ।रम्ये शुभकरे क्लीबे दरोऽस्त्री भयरन्ध्रयोः ॥शङ्खे चालिङ्गमल्पार्थे मात्रा कर्णादिभूषणे ।औषधेऽवधृते कार्त्स्न्येऽक्षरावयववृत्तयोः ॥परिच्छेदे च मानेऽल्पे प्रत्ययेंऽशेऽवधारणे ।वरोऽभीष्टे देवतादेः श्रेष्ठे जामातृषिद्गयोः ॥अथ काश्मीरजे वृत्ते वोढरीषत्प्रिये त्रिषु ।त्रिफलायां शतावर्यां स्त्रीलिङ्गे स्याद्वरावरी ॥शरं दध्नि जले पुंसि बाणे शैलेऽम्बरे खगे ।दन्ते तेजनके मूले काशे कमठवंशयोः ॥कार्पासे चास्त्रशस्त्राश्रुशोणितेषु प्रकीर्तितम् ।नेत्रं पथि गुणे वस्त्रे तरुमूले विलोचने ॥नद्यां रथे मत्कुणे च वल्के नाव्यन्तरेऽपि च ।त्रिषु स्यान्नेतरि क्षेत्रं शरीरे पुरगेहयोः ॥केदारयोनिभार्यासु सिद्धस्थानेऽपि चेष्यते ।कारो वेधे निश्चये च बले यत्ने पतावपि ॥तुषाराद्रेः स्त्रियां दूत्यां बन्धने बन्धनालये ।प्रसेवके कालिकायां हेतावथ करः पुमान् ॥नभांशुहस्तकरणोपधाघनशिलासु च ।राजदेयेभशुण्डायां कर्तर्यथ कुलेऽचले ॥गोत्रं नाम्नि वने मार्गे चित्रे चोरे भुवि स्त्रियाम् ।संभावनीये गोवृन्दे बले त्रातरि च त्रिषु ॥सारं वरेण्ये वानीरे धने च क्वचिदिष्यते ।द्वारं पुरान्निर्गमनेऽप्युपाये रन्ध्रमुच्यते ॥गौरः पीतेऽरुणे श्वेते विरुद्धे मृगमोदयोः ।आधिक्येऽपि नपुं पद्मकेसरे सितसर्षपे ॥स्त्रियां शशिनि गौरी तु नागकन्योमयोर्मता ।रोचनीरचनीपिङ्गीप्रियङ्गुवसुधासु च ॥नदीभेदे च वरुणयोषित्यथ मखे वने ।आच्छादने सदादाने दम्भे सद्रक्षके त्रिषु ॥सादने च क्वचित्पात्रे संदेये सत्रमव्ययम् ।गृहे पशौ च तन्त्रं तु करणे च परिच्छदे ॥तन्तुवाये प्रधाने च शास्त्रसिद्धान्तयोरपि ।तथाष्टीसायकोपाये श्रुतिशाखान्तरेऽपि च ॥कुडुम्बार्थे च कर्तव्यतायां मुख्ये घटोत्तमे ।सिरायाममृतायां च तन्त्री वीणागुणे तनौ ॥शुक्रः काव्येऽनले ज्येष्ठे केतौ शुभ्राक्षिरोगयोः ।क्लीबं क्षेत्रे महेन्द्रे च कुटजेऽर्जुनभूरुहे ॥भद्रं स्यान्मङ्गले हेम्नि मुस्तके करणान्तरे ।वृषे पुंसि तिथौ रुद्रे वाच्यवच्छ्रेष्ठसाधुनोः ॥गजभेदे नृभेदे च मन्दाकिन्यां स्त्रियामपि ।कट्फलानन्तकृष्णासु रास्नायामथ कथ्यते ॥क्षुद्रस्त्रिष्वधमे क्रूरे स्वल्पे कृपणवर्णयोः ।व्यङ्गावेश्यानटीकण्टकारिकासरघासु च ॥स्त्रियां पुंसि दरिद्रे स्यात्क्षुद्रकर्मणि चेष्यते ।क्षौद्रं मधुनि पानीये चेन्द्रः शतमखार्कयोः ॥योधेऽन्तरात्मनि पतौ श्रेष्ठेऽपि स्यात्फणिज्जके ।स्वरुर्वज्रे यूपखण्डे यज्ञपात्रे शिलीमुखे ॥निषादादावुदात्तादावकारादावपि स्वरः ।गुरुर्बृहस्पतौ पितृमात्रादौ दुर्भरेऽधिके ॥निषेकादिकृतिस्थूले त्रिषु मात्राद्वयेऽपि च ।हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु ॥सिंहाश्वकपिभेकाहिशुकलोकान्तरेषु च ।स्वर्णे मणौ च कपिले त्रिष्वथ प्राज्यहोमयोः ॥विधिदामोदरेशेषु भूरिश्चन्द्रेन्द्रयोरपि ।धात्री जनन्यामलकीवसुमत्युपमातृषु ॥वप्रः प्रासादतटयोः साले सानौ विदारणे ।रन्ध्रं छिद्रे निम्नगेऽवकाशे समयदोषयोः ॥पार्श्वेऽथ कन्दलीतुलस्यो रिन्ध्रः(?) स्याद्भरो धरे ।भारे लाभे दुर्भरे च रागभेदे रणेऽपि च ॥वज्रं तु कुलिशे शस्त्रेऽप्यशनौ रचनान्तरे ।मणिभेदे सूचिभेदे योगे चामलके स्त्रियाम् ॥वज्रवल्ल्यां गळूच्यां स्यात्सुरः सूर्येऽमरे पुमान् ।सुरा देवस्त्रियां मद्ये शारिः पर्याणपक्षिणोः ॥क्लीबे द्यूतगुणेऽपि स्यादग्रमालम्बनेऽधिके ।पुरोपरिप्रान्ताद्येषु न पुंसि प्रमिताशने ॥मरुर्निर्जलदेशेऽद्रावद्रिः शैलेऽर्कवृक्षयोः ।वृत्रस्तु दानवे शत्रौ ध्वान्ते चक्रघने गिरौ ॥अस्रस्तु कुन्तले कोणे रक्ते नेत्राम्बुनि समृतः ।शारो वायौ नरी (?) पुंसि कर्बुरे वाच्यलिङ्गकः ॥मन्त्रो वेदे गुप्तवादे देवादीन्साधनेऽपि च ।बभ्रुर्हिरण्यगर्भेऽग्नौ विपुले नकुलेऽपि च ॥पिङ्गले त्रिषु विष्णौ चाथो सारस्तु वरे त्रिषु ।क्लीबे न्याये बले पुंसि स्थिरांशेऽपि तथा भवेत् ॥यात्रा स्याद्यापने याने देवतादिमहोत्सवे ।इरा भूवाक्सुराप्सु स्यात्स्त्रियामप्सरयोषिति ॥तन्द्री निद्राप्रमीले च तन्द्रापि च समार्थके ।मात्रा परिच्छदेऽल्पे च परिमाणे च पुंसि वा ॥कार्त्स्न्येऽवधारणे क्लीबे स्त्रियां स्याद्भूषणे घने ।वर्णवृत्तांशयोश्चापि खरो बालेयवर्षयोः ॥निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः ।मुखाग्रे क्रोडहलयोः पोत्रं क्षीरं पयोम्बुनोः ॥राष्ट्रेऽस्त्री विषये चोपद्रवे व्यग्रस्तु नाकुले ।अव्यासक्ते च देशे च क्रूरौ कठिननिर्दयौ ॥मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः ।धारा संपातपुरयोर्नरोऽजे मानवेऽर्जुने ॥तिरोऽन्तर्धौ तिर्यगर्थे ऊरी विस्तारसम्मतौ ।
28.2.1 · p. 67
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 पि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 7 तु (wrong syllable)nearly अनुष्टुप्