कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

ळान्तवर्गः · त्र्यक्षरळान्ताः

इति व्द्यक्षरळान्ताः ।

सरळो रसिके रज्जौ बहुळः कृष्णपक्षके ।नक्षत्रेऽग्नौ पर्णभेदे गवि स्त्री मङ्गळः कुजे ॥शुभे तु मङ्गळं प्रोक्तं काहळो दुर्जनेऽपि च ।काहळी वाद्यभाण्डे स्यान्नपुंसि भृशशुष्कयोः ॥प्रवाळोऽस्त्री किसलये वीणादण्डे च विद्रुमे ।कराळो दन्तुरे तुङ्गे विकृतोज्ज्वलयोरपि ॥विग्रहे भीषणे चाथ वञ्चुळः स्थलवेतसे ।वानीरे द्रुमभेदे स्याद्विरळं तु तनावपि ॥निचुळो हिञ्जुले पद्मेऽप्यस्त्री मधुफलेऽपि च ।हिन्ताळ उल्लसत्पूगे वकुळोऽशोकपूगयोः ॥कर्पूरधूल्यां द्राक्षादिमधुपूरे तु दोहळम् ।पिङ्गळो वर्णभेदे स्याद्वर्षभेदेऽपि कथ्यते ॥महिळा तु द्रुभेदे स्यात्स्त्रीभेदेऽपि च कथ्यते ।कदळी वैजयन्त्यां च रम्भायां च मृगेऽपि च ॥
35.2.1 · p. 93
अनुष्टुप्