कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

घान्तवर्गः · एकाक्षरघान्ताः

इति चतुरक्षरगान्ताः ।

मेघे निदाघे किङ्किण्यां घण्टायां घट्टने च घः ।घं वाद्यामृतयोर्घा भूवार्ताघोरेषु च त्रिषु ॥
5.1.1 · p. 16
अनुष्टुप्

इत्येकाक्षरघान्ताः ।

ओघः प्रवाहनिवहोपदेशातिशयेषु च ।वेण्यां परंपरानृत्तद्रुतेष्वपि पुमानथ ॥त्रिष्विष्टेऽल्पे मनोज्ञे च निःसारेऽगुरुशीघ्रयोः ।कृष्णागरुणि स्पृक्कायामोजःक्षपणयोर्लघुः ॥मोघा स्त्रियां पाटलायां त्रिषु निष्फलदीनयोः ।नीरदेऽथ मघो यज्ञे पुं नक्षत्रे स्त्रियामपि ॥इच्छाप्रशंसयोः श्लाघा भे मघा भेषजे मघी ।अर्घः पूजाविधौ मूल्येंऽहोदुःखव्यसनेष्वघम् ॥
5.1.2 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णि (wrong syllable)