All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
नान्तवर्गः · चतुरक्षरनान्ताः
इति त्र्यक्षरनान्ताः ।
वैरोचनस्तु सुगते बलिकर्णयमेषु च ।शनौ विरोचनस्तु स्यात्प्रह्लादतनयार्कयोः ॥अग्नौ चन्द्रे च कान्तौ स्यादथ नेत्रे विलोचनः ।अन्धके विषये क्लीबे अभिज्ञानं स्मृतावपि ॥गर्वे ज्ञाने च हिंसायां प्रणवे च समीरितम् ।उपासनं शराभ्यासे शुश्रूषायां च हिंसने ॥अग्रजन्मा द्विजे ज्येष्ठभ्रातरि ब्रह्मणि स्मृतम् ।निबन्धनं तु संसर्गे हेतौ संयमनेऽपि च ॥कौतुके चानुरागे च लक्ष्येऽभिज्ञान उच्यते ।उपधानं विशेषे स्याद्गड्डुके प्रणयेऽपि च ॥रसायनं विहङ्गे स्याद्व्याधीनां च कृतौषधे ।प्रतियत्नस्तु संस्कारे चोपग्रहणलिप्सयोः ॥शक्रघातुकमत्तेभनीरदेषु घनाघनः ।निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च ॥संपिधानं तु वस्त्रे चाच्छादनेऽपि प्रकीर्तितम् ।आराधनं साधने स्यादवाप्तौ तोषणेऽपि च ॥अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि ।अभिपन्नोऽपराद्धेऽभिग्रस्ते व्यापद्गतावपि ॥विश्वकर्मा दिनकरे सुरशिल्पिनि पुंस्ययम् ।महासेनस्तु सेनान्यां षण्मुखे वासवेऽपि च ॥दुःशासनस्तु दुर्दण्डे सुयोधनसुते पुमान् ।विकर्तनश्चोद्वलने मार्ताण्डे नृपतावपि ॥संकेतनं लालने च संज्ञाध्वजगृहेषु च ।आतञ्चनं प्रतीवापे जवनाप्यायनार्थयोः ॥आलोचनं दर्शने स्याद्यतिबुद्ध्या निरीक्षणे ।विष्वक्सेनोऽच्युतः पुंसि घृष्टिगन्धफलिन्ययोः ॥
21.4.1 · p. 52
अनुष्टुप्