कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

जान्तवर्गः · द्व्यक्षरजान्ताः

इत्येकाक्षरजान्ताः ।

मासोत्साहबलेषूर्जो व्याजः साक्षापदेशयोः ।छद्मन्यथ कुजो वृक्षे नरकेऽङ्गारकेऽपि च ॥व्रजो गोपे च गोष्ठे च समूहेऽध्वनि पुंस्ययम् ।अजो हरौ हरे कामे विधौ छागे रघोः सुते ॥अब्जस्तु निचुले शङ्खे पद्मे धन्वन्तरावपि ।वेद्येन्द्वोरपि तेजस्तु पुंसि दीप्तिप्रभावयोः ॥कुञ्जो दन्ते निकुञ्जेऽपि न स्त्रियां संततौ जने ।प्रजा स्यादथ दन्ते च विप्रेऽहौ पक्षिणि द्विजः ॥स्त्रियां भासारेणुकयोराजिः पङ्क्त्यु(?)द्धभूमिषु ।क्षणेऽपि स्यान्निजं नित्ये स्वके धर्मेऽपि च त्रिषु ॥गाम्भीर्येऽपि च बीजं हेतावङ्कुरकारणे ।वीर्येन्द्रिये च वाजं स्यादाज्ययज्ञान्नयोरपि ॥पुं यवागौ जले कीर्त्यां मुनौ निस्वनपक्षयोः ।जवे च वाजी तुरगे कङ्कपत्रे च पक्षिणि ॥पिञ्जस्त्वाधानपटलव्याकुलेषु हरिद्रके ।तूले बले वधे युग्मे कञ्जः केशविरिञ्चयोः ॥पीयूषपद्मयोः क्लीबं ध्वजश्चिह्नपताकयोः ।कीर्तिशौण्डिकशेफेषु श्रेष्ठखड्गाङ्गयोरपि ॥न्युब्जं तु कमठेऽपि स्यात्पुंनपुंसि कुशस्रुचि ।अधोमुखे च कुब्जे च वक्रे वाच्यवदिष्यते ॥गुञ्जोऽस्त्री गह्वरे बृन्दे घण्टायामथ कथ्यते ।रजो गुणे च धूल्यां च राजा चन्द्रे नृपे प्रभौ ॥उपचारार्कहंसेन्द्रयक्षेष्वपि पुमानयम् ।पुञ्जस्तु बहले तुल्ये गञ्जा तु मदिरागृहे ॥
9.2.1 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्