All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
हान्तवर्गः · एकाक्षरहान्ताः
इति चतुरक्षरसान्ताः ।
हः शंकरे हरे हंसे रणरोमाञ्चवाजिषु ।गर्भे प्रचेतसि स्त्री तु हा त्यागे गतिवीणयोः ॥हं क्लीबमस्त्रसुखयोः क्वणिते मणिरोचिषि ।परब्रह्मामन्त्रणयोस्त्रिषु तून्मत्तहास्ययोः ॥हेतुसंबोधनेऽपि स्यात् हा स्त्रियां परिदेवने ।हुं वितर्के परिप्रश्ने न्यासे च भयदानयोः ॥ही विस्मये विषादे च हि हेताववधारणे ।
34.1.1 · p. 91
अनुष्टुप्