All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
खान्तवर्गः · द्व्यक्षरखान्ताः
इत्येकाक्षरखान्ताः ।
शिखा स्यादग्रमात्रेऽग्निज्वालायां च स्त्रियां भवेत् ।लाङ्गलक्यां शिफायां च केकिमौलिशिखण्डयोः ॥शैलपादपयोरग्रे कचबन्धे घृणावपि ।शङ्खो निधौ ललाटास्थ्नि कम्बौ सानौ भुजंगमे ॥नखरे वलयेऽपि स्यात्संख्यायां पुंनपुंस्यथ ।शिबिरे मन्दिरे वह्नौ मयूरे कुक्कुटे द्रुमे ॥पोत्रिमूषिकयोराखुः शाखी पादपवेदयोः ।शाखा स्कन्धे सूत्रभेदे वृक्षे पक्षान्तरे भुजे ॥निकटे छन्दसां भेदे पादपाङ्गेऽपि च स्त्रियाम् ।पुङ्खः श्येने शरादौ च सुखं स्वर्गम्बुशर्मसु ॥रेखा लेखा श्रेणिदेवलिपिलेखनराजिषु ।सूक्ष्मांशके सुन्दरे च मर्यादायां च पुंसि वा ॥वरुणस्य नगर्यां तु स्त्रियां द्रव्ये सुखे नपुम् ।सुखहेतौ सुखं क्लीबे लिङ्खस्तु गतिनाट्ययोः ॥प्रेङ्खः पर्यटने वाजिगतौ निःसरणे मुखम् ।प्रारम्भे द्वारि बाणाग्रे प्रधाने ताम्रवक्त्रयोः ॥उपायेऽपि ततो मित्रे सहायेऽपि सखा त्रिषु ।नखोऽस्त्री नखरेऽक्लीबे षण्डे कोलदलेऽपि च ॥न्युङ्खो मनोऽज्ञेन्यलिङ्गः साम्नि षट्प्रणवेषु च ।
3.2.1 · p. 11
अनुष्टुप्