कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

धान्तवर्गः · त्र्यक्षरधान्ताः

इति द्व्यक्षरधान्ताः ।

विवधो विषये पुंसि पर्याहारा(रे?)ध्वभारयोः ।न्यग्रोधः काष्ठवेण्वोश्च व्यामे वटतरावपि ॥विबुधौ सुरविद्वांसावुत्सेधः काय उन्नतौ ।अवधिस्त्ववसाने स्यात्सीम्नि काले बिलेऽपि च ॥उपाधिर्धर्मचिन्तायां कैतवेऽपि विशेषणे ।कुडुम्बव्रतवक्रेषु व्याजे पुं प्रणिधिः पुमान् ॥अतिनिक्षेपचरयोः प्रार्थितेऽथ रथस्थिते ।वरूथो रथगुप्तौ स्यात्तिरोधत्ते(?) विवर्तने ॥समाधिर्नियमे स्थाने निपाते च समर्थने ।प्रसिद्धः स्याद्भूषिते च ख्याते तूर्यतृतीयके ॥परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ।कबन्धोऽस्त्री जले दैत्येऽप्यपमूर्धकलेवरे ॥
20.3.1 · p. 46
अनुष्टुप्