All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
नान्तवर्गः · द्व्यक्षरनान्ताः
इत्येकाक्षरनान्ताः ।
गमने वाहने यानं भिन्नं मिश्रे पृथक्कृते ।जनस्तु पामरे लोके घनं स्याल्लोहमुद्गरे ॥कांस्ये तालादिके नृत्ते विस्तारेऽभ्रे दृढेऽधिके ।सान्द्रे स्त्रियां तु मुस्तायां त्रिषु मूर्तिगुणे भरे ॥दानं गजमदे त्यागे पालनच्छेदबुद्धिषु ।स्थानं स्थितौ च सादृश्ये संनिवेशावकाशयोः ॥युक्तार्थे कारणार्थे च युद्धनृत्तार्थयोरपि ।तनुस्तु विरले काये कृशेऽल्पे च क्वचित्त्रिषु ॥सूनुः सुतेने सहजे वधस्थानोपजिह्वयोः ।गळशुण्ठिकभेदे च सूनः स्याद्वाच्यलिङ्गकः ॥पुष्पप्रसवयोः क्लीबं स्वप्नः सुप्तस्य संस्मृतौ ।ननु प्रश्नानुनययोस्तोके संबोधनेऽपि च ॥मानं कोपेऽभिभाने च विमाने मददण्डयोः ।शून्ये प्रमाणे प्रस्थादौ पुंसि चित्तोन्नतावपि ॥स्नानीयेऽभिषवे स्नानं योनिः स्यात्तान्त्रिके पणे ।स्त्रीणां गुह्ये कारणे च जन्मस्थानेऽपि कीर्तितः ॥नाम क्लीबे नामधेयेऽव्ययं स्यादवधारणे ।स्यात्प्रकाशे प्रसिद्धे च क्रोधोपगमकुत्सने ॥भानुर्दिवाकरे रश्म्यां ग्रावाणेऽद्रौ पुमान्भवेत् ।पत्री बाणे पक्षिभेदे वृक्षादौ वाहयुक्तके ॥शिखी वह्नौ मयूरे च ओषधौ पर्वते द्विजे ।कुक्कुटध्वजयोश्चाथ सादी स्यात्सारथावपि ॥गजारोहे हयारोहे वाजी तुरगबाणयोः ।विहङ्गेऽथ धृतौ बुद्धिस्वभावब्रह्मवर्ष्मसु ॥यत्ने जीवेन्द्रिये वायौ चात्मा स्यादथ भूपतौ ।राजा चन्द्रे क्षत्रियेन्द्रे क्षयरोगे पतौ द्रुमे ॥इनः सूर्ये प्रभौ पुंसि ब्रह्मा वेदे द्विजेऽपि च ।तत्त्वे तपसि योगेन्दौ सूर्ये ब्रह्मणि वेधसि ॥वर्त्म नेत्रच्छदे मार्गे मीनो राशौ झषेऽपि च ।पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यंशेऽप्यणौ गुरौ ॥पर्वस्तु तिथिभेदे स्यादुत्सवे लक्षणान्तरे ।दर्शप्रतिप्रदोः संधौ विषुवत्प्रभृतावपि ॥ग्रन्थिप्रस्तावयोश्चापि वर्ष्म देहप्रमाणयोः ।धाम त्विषि प्रभावे च गृहे देहे च जन्मनि ॥लक्ष्म चिह्ने प्रधाने च रत्नं श्रेष्ठे मणावपि ।स्वजाते पद्मरागादौ वनं काननवारिणौ ॥हीनन्यूनावूनगर्ह्यौ ज्ञानी सर्वज्ञसौम्ययोः ।दाम रज्जौ राक्षसे च कर्म सत्कृत्यपापयोः ॥जीवस्थानेऽथावसाने संयोगप्रतिलोमयोः ।स्थाने गतौ चानुशब्दः पश्चात्सादृश्ययोरपि ॥पुनरप्रथमे भेदे नूनं तर्केऽर्थनिश्चये ।अनः प्राणयुतेऽपि स्यान्नानानेकोभयार्थयोः ॥
21.2.1 · p. 47
अनुष्टुप्