All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
वान्तवर्गः · त्र्यक्षरवान्ताः
इति व्द्यक्षरवान्ताः ।
कैरवः कुमुदे क्लीबे पुंसि स्यात्पिशुनेऽपि च ।सुग्रीवस्तु सुकण्ठे च वालिभ्रातरि कथ्यते ॥गन्धर्वस्तुरगे दिव्यगायके शेखरेऽपि च ।अन्तराभवसत्त्वे च मृगे पुरुषकोकिले ॥प्रभवो जन्ममूलेऽब्दे जन्मभूमौ पराक्रमे ।आद्योपलब्धौ ज्ञाने च विभवोऽब्दे धने वृतौ ॥पल्लवोऽस्त्री किसलये शृङ्गारपदगर्भयोः ।पवने विटपे षिद्गे रत्नविस्तारयोरपि ॥कितवो धूर्त उन्मत्ते वञ्चके कनकाह्वये ।प्रसवस्तु फले पुष्पे प्रभवे गर्भमोचने ॥माधवस्तु वसन्ते स्याद्वैशाखे गरुडध्वजे ।आहवो युद्ध आह्वानेऽध्वरे होमनिदेशयोः ॥निह्नवस्तु नमस्कारे विश्वासेऽपह्नवेऽपि च ।निकृतौ चाथ सचिवः स्यात्सहाये च मन्त्रिणि ॥उत्सवः प्रसवेच्छाका(?)मर्षोत्सेधमहःसु च ।द्विजिह्वः सूचके सर्पे पार्थिवो हायने नृपे ॥
30.3.1 · p. 83
अनुष्टुप्