All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
णान्तवर्गः · त्र्यक्षरणान्ताः
इति व्द्यक्षरणान्ताः ।
तरुणस्तु नवे यूनि मद्ये प्रथम उत्कटे ।अरुणः कपिले कुष्ठे संध्यारागेऽर्कसारथौ ॥अव्यक्तरागे निःशब्दे द्रव्ये त्रिषु निरूपितः ।स्त्रियामतिविषाश्यामामञ्जिष्ठात्रिवृतासु च ॥द्रविणं तु बले वित्ते काञ्चनग्रहभेदयोः ।शरणं गृहरक्षित्रोर्वधे च करणः शिशौ ॥शूद्राविशोः सुतेऽपि स्यात्करणं रतिबन्धने ।प्राणे च साधकतमे नृत्तसंस्थानकर्मणोः ॥क्षेत्रगात्रेन्द्रियेषु स्याद्ववादावङ्गहारयोः ।संवेशेऽप्यथ यन्त्राणां बन्धने रक्षणेऽपि च ॥ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामधिपे त्रिषु ।हरिणः स्यात्कुरङ्गे च पाण्डरेऽपि प्रकीर्तितः ॥हरिणी स्यान्मृगीहेमप्रतिमाहरितादिषु ।वृत्तभेदे यूथिकायां दूर्वादौ सुरयोषिति ॥दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु ।दानद्रव्ये हर्षणं तु योगभेदे मदेऽपि च ॥श्राद्धदेवे विषाणं तु पशुशृङ्गेभदन्तयोः ।क्रोधे वराहदंष्ट्रे च पुंनपुंसकयोरपि ॥प्रवणः क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे ।संकीर्णौ निचिताशुद्धौ श्रीपर्णं कमलेऽपि च ॥बिल्वेऽथ ईरणं शून्ये ऊषरेऽपि प्रचक्ष्यते ।प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ॥प्रतीच्यां च सुरायां च वारुणी स्याद्वणिक्पथे ।विपणिश्च करेणुस्तु वारणानां च योषिति ॥कारणं करणे हेतुवादयोः शेखरेऽपि च ।यातनायां हस्तिसूत्रे मण्डनाङ्कणयोरपि ॥मार्गणो याचके बाणे प्रार्थनेऽन्वेषणेऽपि च ।लवणो रसरक्षोब्धिभेदेषु त्विषि चेष्यते ॥करिणी हस्तिपिप्पल्यामभिप्रायगजस्त्रियोः ।सारिणी अल्पसरितां(ति?) रोहणो रत्नपर्वते ॥निर्वाणं निर्विते मोक्षे सुखे नग्नेऽपि हर्षणे ।सुवर्णप्रतिमायां च नाशे च गजमज्जने ॥चारणो नित्यसंचारे पुंसि स्याद्देवगायके ।लक्षणं नाम्नि चिह्ने च गुणे निर्वाचनेऽपि च ॥पद्यादौ सुन्दरे भाग्ये भूषणादावपीष्यते ।
16.3.1 · p. 30
अनुष्टुप्