कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

लान्तवर्गः · त्र्यक्षरलान्ताः

इति व्द्यक्षरलान्ताः ।

कुण्डलं वलये पाशे क्लीबे कर्णविभूषणे ।गळूच्यां स्त्री काञ्चनाद्रौ सर्पे पुंसि तु कुण्डली ॥मण्डलं वर्तुले राष्ट्रे कुष्टे द्वादशराजके ।देवतायतने बिम्बे स्थले वृन्दे पुमाञ्शुनि ॥मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः ।मुञ्जरज्जौ शाड्वलस्तु पुंसि कर्दमदेशयोः ॥अचलः पर्वते वृक्षे कीलावसुधयोः स्त्रियाम् ।चञ्चलः कामुके वायौ लक्ष्म्यां तटिति च स्त्रियाम् ॥जाङ्गलं मांसमिलिते स्त्रियां स्याच्छारदीजले ।शृङ्खला त्रिषु संदर्भविशेषे निगलेऽपि च ॥गोपालः पशुपाले स्याद्वैकुण्ठे च जितेन्द्रिये ।सृगालो दैत्यभेदे च क्षुद्रशत्रौ च जम्बुके ॥न्यूने हीने च विकलो दुष्टे च ननियन्त्रके ।नकुलः पाण्डुतनये सर्पभुक्कुलहीनयोः ॥उत्तालो भीषणे मत्ते विलालो विकटस्थले ।लाङ्गली नालिकेरे च जामदग्नौ च पुंस्ययम् ॥लाङ्गूलं वानरे पुच्छे फल्गुन्यां लवली स्त्रियाम् ।अनलं राज्ञि नाले च पुंस्यग्न्यौषधिभेदयोः ॥दुकूलं सूक्ष्मवस्त्रे स्यादुत्तरीये सितांशुके ।उपलः प्रस्तरे रत्ने चाश्मरूपमृदि स्त्रियाम् ॥ऐक्षवे चपलः शीघ्रे दुर्नीतावस्थिते रसे ।स्त्रियां विद्युति चाभीलः कृच्छ्रे भीतेऽथ वातुलः ॥वातसहेऽपि वात्यायां पुंस्युन्मत्तेऽपि च त्रिषु ।कमलं सलिले ताम्रे जलजे क्लोम्नि भेषजे ॥कुरङ्गभेदे कमलः स्त्रियां तु श्रीवरस्त्रियोः ।कम्बलो नागराजे च सास्नायां मृगरोमजे ॥गजप्रवरणे चैव निष्कला विगतार्तवा ।कलाहीने चावलिस्तु रेखायामपि कथ्यते ॥बहुलो वह्न्यसितयोः कृत्तिकायां गवि स्त्रियाम् ।बलायां कृष्णपक्षे च कीलालं शोणितेऽम्भसि ॥पटलं नेत्ररोगे च परिच्छेदसमूहयोः ।तिलके पुंनपुंसि स्याच्छदिः स्त्री पटलीति च ॥पातालं वडवाग्नौ स्याद्बलिसद्मनि चेष्यते ।कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले ॥निर्णीते केवलमिति स्त्रीलिङ्गं त्वेककृत्स्नयोः ।पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु ॥भारवाहे प्रवालं तु वीणादण्डे च विद्रुमे ।अङ्कुरे स्यात्किसलये करालो दन्तुरे पुमान् ॥तुङ्गेऽथ पेशलो दक्षे चारौ च मुसले हरे ।मुदुले कोकिले प्रोक्त अनिलस्तु प्रभञ्जने ॥विमलो निर्मले शुभ्रे हिन्तालः पादपान्तरे ।उन्नते उत्थितेऽपि स्यादुत्तालः परिकीर्तितः ॥शाण्डिल्यो मुनिभेदे च शिल्पे च परिकीर्तितः ।
29.3.1 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)