All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
हान्तवर्गः · द्व्यक्षरहान्ताः
इत्येकाक्षरहान्ताः ।
ग्रहोऽवग्रहनिर्बन्धग्रहणेषु रणोद्यमे ।सूर्यादौ पूतनादौ च सैंहिकेयेऽपि तत्त्रिषु ॥पत्नीमन्दिरयोश्चाथ स्नेहस्तु लेपसौहृदे ।नवनीतेऽप्यहिर्वृत्रासुरे सर्पे च दुर्जने ॥बर्हः पर्णे मयूरस्य पिञ्छे हाहा निवारणे ।खेदे मोदे च गन्धर्वे हूहू चापि प्रकम्पने ॥व्यूहस्तु सेनाविन्यासे चोत्प्रेक्षावृन्दयोः पुमान् ।कुहूः स्यात्कोकिलालापनष्टेन्दुकलयोरपि ॥अहो बतानुकम्पायां खेदे संबोधनेऽह्नि च ।सह साकल्यसादृश्ययौगपद्यसमृद्धिषु ॥गुहस्तु षण्मुखेऽपि स्याद्देवखातबिले गुहा ।
34.2.1 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)