कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

बान्तवर्गः · द्व्यक्षरबान्ताः

इत्येकाक्षरबान्ताः ।

निम्बस्तु पिचुमन्दे च पारिभद्रतरावपि ।बिम्बोऽस्त्री मण्डले सोमसूर्ययोर्मुखलक्ष्मणोः ॥प्रतिबिम्बे प्रतिकृतौ स्त्रियां स्याद्बिम्बिकाफले ।शम्बः स्यान्मुसलाग्रस्थलोहमण्डलके पवौ ॥शुभान्विते शुभंयौ च कम्बुर्वलयशङ्खयोः ।क्लीबं नपुंसके षण्डे वाच्यलिङ्गमविक्रमे ॥
24.2.1 · p. 55
अनुष्टुप्