कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

रेफान्तवर्गः · एकाक्षररेफान्ताः

इति पञ्चाक्षरयान्ताः ।

रः पुमान्पावके कामे क्षये वज्रे शयेऽप्यरौ ।रा स्त्रियां हेम्नि शालायामाशंसायां गतावपि ॥रं क्लीबे रुधिरे मूर्ध्नि ध्याने व्योमाण्डकुक्षिषु ।त्रिषु स्याद्वक्त्रभययोर्विरसे त्यागतीक्ष्णयोः ॥रास्तु द्वयोर्ध्वनौ स्वर्णे रिशब्दस्तु स्रवे क्षये ।स्त्री रुग्ज्वालेच्छयोः कान्तौ रुर्ना युद्धे भये ध्वनौ ॥स्त्री कामिनीवम्रिकयोर्द्रुः स्वर्णे पादपेऽपि च ।श्रीर्वेषरचनावृक्षभासंपत्सरघासु च ॥वाणीलक्ष्मीलवङ्केषु विषे बिल्वेऽप्ययं त्रिषु ।जटायां पूरणे स्रुक्स्त्री होमाङ्गे च गतौ स्त्रियाम् ॥धूः स्याद्यानमुखे भारे कम्पने च तदिष्यते ।दर्शनज्ञाननेत्रेषु दृक् स्त्री द्रष्टरि तु त्रिषु ॥
28.1.1 · p. 66
अनुष्टुप्