कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

यान्तवर्गः · चतुरक्षरयान्ताः

इति त्र्यक्षरयान्ताः ।

सां(सं)परायः स्मृतो युद्धे विपदुत्तरकालयोः ।भयेऽप्यनुशयो द्वेषे पश्चात्तापानुबन्धयोः ॥पौरुषेयो विकारे स्यात्पुरुषस्य पदान्तरे ।पुंसां समूहवधयोः पुरुषेण कृतेऽपि च ॥व्यवसायः कारणे च व्यापारे कृषिकर्मणि ।स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते ॥गन्धशीले चानुशयो दीर्घद्वेषानुतापयोः ।समवायः समूहे स्यादथोर्ध्वश्रयणेऽपि च ॥उन्नत्यां च विरोधे च स्यात्प्रतिश्रय आस्पदे ।साधारणे चाश्रयणे सभायां च प्रकीर्तितः ॥करतोयः सदानीरे नदीभेदेऽपि कथ्यते ।अवश्यायो हिमे गर्वे बहुधान्योऽब्दपट्णयोः ॥
27.3.1 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)