All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
जान्तवर्गः · त्र्यक्षरजान्ताः
इति व्द्यक्षरजान्ताः ।
अम्भोजं कमले मत्स्ये विश्वामित्रसुतेऽपि च ।जलजः कौस्तुभे मीने तत्क्लीबे शङ्खपद्मयोः ॥मुरजस्तु मृदङ्गे च ढक्कामुरवयोरपि ।बलजः स्यात्त्रिषु क्षेत्रे पूर्द्वारे धान्यराशिषु ॥तत्क्लीबे गोपुरे सस्ये संगतावपि तत्स्त्रियाम् ।वल्गुदर्शनभूसव्यजोत्तमस्त्रीषु कथ्यते ॥वणिक्करणभेदेऽपि वाणिज्यायामपीष्यते ।अङ्गजं रुधिरेऽनङ्गे केशे पुत्रे मदे पुमान् ॥नागरे नखरेऽपि स्यात्सामजस्तु गजे स्मृतः ।काम्बोजो हस्तिभेदे च शङ्खदेशविशेषयोः ॥अश्वे पुंनागवृक्षे च सोमवल्के तदिष्यते ।काम्बोजी माषपर्ण्यां च हिङ्गुपर्ण्यामपि स्मृतम् ॥
9.3.1 · p. 21
अनुष्टुप्