All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
धान्तवर्गः · चतुरक्षरधान्ताः
इति त्र्यक्षरधान्ताः ।
अवरोधस्तिरोधाने राजदोरेषु तद्गृहे ।समुन्नद्धः समुद्भूते पण्डितंमन्यदृप्तयोः ॥अनुबन्धः प्रकृत्यादौ दोषोत्पादे विनश्वरे ।मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥अनुबन्धेऽपि हिक्कायां भ्रष्टायामपि कथ्यते ।गजबन्धस्तु सुरते आलाने ग्रहणेऽपि च ॥ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बने ।अविदूरेऽप्यवष्टब्ध रुन्धे(द्धे?) क्रान्ते तिरस्कृते ॥
20.4.1 · p. 46
अनुष्टुप्